SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ९८ गङ्गातैलीदृष्टान्तः अनुसन्धान-५८ सं. मुनि रत्नकीर्तिविजयः कोई फुटकळ ह.लि. पत्रमांथी ऊतारेलुं आ मनोरञ्जक दृष्टान्त छे. भोजप्रबन्धथी मांडीने लोकभाषा सुधी आ कथानक विविध रूपे प्रचलित छे. आने लोककथा ज कही शकाय. परन्तु तेनुं संस्कृत स्वरूप पण सहुना ध्यानमां आवे ते हेतुथी ते अहीं प्रगट कर्तुं छे. सन्दर्भ जोतां कल्पसूत्रनी वाचनामां सिद्धार्थ राजाना कोई प्रसंगमां, कोई साथेना संवादमां आ कथा उद्धृत करी होवानुं अनुमान थाय छे. ॥ ६० ॥ अत्र गङ्गातेलीदृष्टान्तमाह ॥ प्रोच्यते— सत्यमेतत् देवानुप्रियाः ! यद्यूयं वदथ सुसिद्धी(द्धि)कानां सर्वत्र स्यात्, गङ्गातैलीवत् । यतो यूयं सुसिद्धिकाः । तथा-कोऽपि विप्रो युवा विद्यार्थी प्रतिष्ठानपुरे दक्षिणदेशे गत्वा भट्टपार्श्वे सर्वविद्यास्त्रिंशद्वर्षैः पठित्वा जातगर्वो मस्तकेऽङ्कुशं धरन् विद्यया ‘उदरं मा स्फुटतु' इति उदरे बद्धपट्टः, 'यदि वादी नंष्ट्वा आकाशे याति तदा निःश्रेण्यामारुह्य अधः पातयामि' इति निःश्रेणीं सेवकस्कन्धे वहन् चिन्तयति 'यदि वादी पाताले प्रविशति तदा कुद्दालैः खानयित्वा निष्कासयामि' इति कुद्दालानपि सार्द्धे धरन्, 'यो ममाग्रे हारयति स तृणान् (नि) मुखे गृह्णातु' इति तृणपूलकं सेवककक्षायां धारयन्, वादेन दक्षिण- गौर्जर-मरुधरा[दि]देशवादिनो निर्जी(जि)त्य सरस्वतीकण्ठाभरणादीन् बिरुदान् वादयन् भोजराजसभां पञ्चशतपण्डितैर्विराजमानं (नां) श्रुत्वा उज्जयिन्यां समेतः । प्रवेशोत्सवादिना सन्मानदानपूर्वं उत्तारितः समीचीनस्थाने गतः । सभायामागतेन [तेन] भोजराजसमक्षं वादकरणेन कालिदास-क्रीडाचन्द्रभवभूतिप्रमुखाः पञ्चस(श)तपण्डिताः अपि जिता: । भोजराजेन विमृष्टम् -'अहो ! परदेशिना भट्टाचार्येण मदीया जिता:, मम पण्डितसभामहात्मं (माहात्म्यं) गतम् ।' इति चिन्तातुरः क्रीडार्थं वने गच्छन् एकाक्षं वहद् घाणीमध्यात् हस्तेन तैलं निष्कास्य कुम्भमध्ये तैलं क्षिपन्तं गङ्गानामानं तैलिकं पश्यति स्म । राज्ञा
SR No.229543
Book TitleGangataili Drushtant
Original Sutra AuthorN/A
AuthorRatnakirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages3
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size67 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy