Book Title: Gangataili Drushtant
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ फेब्रुआरी विचारितम् अहो ! काणस्य अस्य बुद्धिविज्ञानम् । युक्तं चैतत् । यतःषष्टिर्वामनके दोषा अशीतिर्मधुपिङ्गले । शतं च टुण्टमुण्डे च काणे संख्या न विद्यते ॥१॥ - २०१२ ततस्तमाकार्य्य राज्ञा पृष्टम् - अहो ! त्वं भट्टाचार्येण सह वादं करिष्यति (सि)? । तेन प्रोक्तम् ओम् ! किं दास्यति (सि) ? । का प्रतिष्ठाऽस्ति अटपटा-न्यायेन भवति कदाचित् । तत आदित्यवारे राज्ञा भट्टाचार्यः प्रोक्तं (क्तः) 'भो ! श्री भट्टाचार्य! मम भट्टास्त (त्व) या जितास्तत्स्य (स) त्यं परं अस्माकमेतेषां भट्टानां पाठको भट्टाचार्योऽस्ति । तेन सममद्य वादः क्रियताम् ।' दक्षिणभट्टाचार्येण प्रोक्तम् – ‘भव्यम्’ । - ९९ - I ततो भट्टाचार्यः सिंहासने उपनिवेशितः । अन्येऽपि कालिदासक्रीडाचन्द्रप्रमुखाः पञ्चशतभट्टाः समेताः । तेषामपि आसनानि राज्ञा दत्तानि । ततो गङ्गातैलीभट्टाचार्यः परिधापितः पञ्चाङ्गवेषः स्वर्णाभरणादिना विभूषितः स्थूलवपुः मदोन्मत्तहस्तीव आनीतः । राज्ञा (जा) उत्थितः । सर्वा सभापि उत्थिता । बहुमानसम्मानादिना राज्ञा सिंहासने निवेशितः । ततो दक्षिणीयभट्टाचार्येण विमृष्टम्अहं कृशवपुः, अयं स्थूलवपुः । कथङ्कारं वादेन जयिष्यामि । ततः किं वा कलहेन ? तत्त्वं पृच्छामि । ततो दक्षिणभट्टाचार्येण एकाङ्गुलीर्दर्शी (र्शिता । भोजराजभट्टेन क्रोधं कृत्वा अङ्गुलिद्वयं दर्शितम् । ततो जातचमत्कारेण दक्षिणभट्टाचार्येण प्रलम्बितपञ्चाङ्गलिको हस्त ऊर्ध्वकृतो दर्शितः, ततो भोजभट्टे[न] दृढा मुष्टिर्दर्शिता । ततो दक्षिणभट्टो मस्तकात् अङ्कुशं उत्तार्य उदरात् विद्यापट्टं छोटयित्वा निःश्रेणीं भग्ना (भङ्क्त्वा ) कुद्दालान् दण्डात् वियोज्य तृणपूलकं प्रज्वालयित्वा गर्वं मुक्त्वा सभासमक्षं भोजभट्टस्य पादयोर्लग्न: । 'अहो ! अहं न केनपि जितः परं त्वं महापण्डितस्त (स्त्व) या जितः । ' - भोजराजेन पृष्टम् – ‘को वादः कृतः ? अस्माकं श्राव्यताम् ।' भट्टाचार्यः प्राह-'अहो भोज ! मया एकाङ्गुलिदर्शनेन ज्ञापितं 'एक: शिवो जगत्कर्ताऽस्ति' । भवदीयभट्टेन विशेषो ज्ञापितोऽङ्गुलिद्वयदर्शितेन यत्- 'एकेन शिवेन किम् ? द्वितीया शक्तिरप्यस्ति' । पुनर्मया पञ्चाङ्गुलिदर्शनेन ज्ञापितम् – ‘इन्द्रियाणि पञ्च सन्ति' । त्वदीयभट्टाचार्येण मुष्टिदर्शनात् ज्ञापितं 'पञ्चेन्द्रिया[णि] बद्धानि दमितानि भव्यानि' । ततो भवदीयो भट्टाचार्यो महापण्डितो वैराग्यवान् च ।

Loading...

Page Navigation
1 2 3