Book Title: Dhaturatnakar Part 2
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
View full book text
________________
शौनकापरपर्यायास्त एते प्रत्यक्षं कंसं घातयन्ति बलिं बन्धयन्ति। कंसानुकारी हि नटः कंसबुद्ध्या सामाजिकैर्गृहीत इति कृत्वा कंस इत्युच्यते। चित्रेष्यप्युद्गर्णा निपतिताश्च प्रहाराः कंसस्य कृष्णस्य च दृश्यन्ते। अथास्त्वत्र वर्तमानता ग्रन्थिकेषु तु कथकापरनामसु कथं यत्र शब्दमानं लक्ष्यते। उच्यते-तेऽपि हि तेषामुत्पत्तिप्रभृत्या विनाशावृद्धीक्चक्षाणाः सन्तो बुद्धिविषयांस्तान् कुर्वन्तः प्रत्यक्षतामापादयन्ति। तदुक्तं हरिणा-शब्दोपहितरूपाय बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते।।१।। इति अतश्चैतद्यतो व्यामिश्रा दृश्यन्ते केचिद्वासुदेवभक्ता भक्ता वर्णान्यत्वं पुष्यन्ति केचिद्क्तमुखा भवन्ति केचित्कृष्णमुखा: त्रैकाल्यं खल्वपि लोके लक्ष्यते गच्छ हन्यते कंस: गच्छ घातिष्यते कंस: किं गतेन हतः कंस: तस्मादाख्यानाभिनयज्ञानप्राप्तिभिर्बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते तस्माद्राजागमनमाचष्टे। कंसवधभाचष्ट इत्यादि विवक्षायां तु प्रत्ययो नेष्यत एवेति। कर्तापि करणादिनि प्रयुञ्जानः प्रयोक्ता भवतीति प्रसङ्गं चोदयत्राह-ननु चेत्यादित
द्व्यापारेऽपीति कर्तृव्यापारेऽपीत्यर्थः। परिहरन्नाह-नैवमित्यादिना प्रयोक्तृमात्रग्रहणे व्यापार इत्येव णिग्विधिः स्यात् किं प्रयोक्तृग्रहणेन तक्रियमाणं विशिष्टविषयं विज्ञायते यो लोके प्रयोक्तृत्वेन रूढः स इह प्रयोक्ता कर्तुर्व्यापारयिता कर्ता तु करणादीन् प्रयुञ्जानोऽपि कर्त्ततयैव प्रसिद्ध इति तव्यापारे णिग्न भवतीत्यर्थः. प्रयोक्ता प्रयोज्यः कर्तापि च क्रियां प्रति सव्यापार एवोच्यते न निर्व्यापार इत्याह- तथेत्यादि तेनेत्यादिना तत्सिद्धं दर्शयति। अयमर्थः । स्वतन्त्रस्य कर्तुः प्रयोजक: प्रयोक्तोच्यते। प्रयोज्यश्चात्र कर्ता न भवतीति तत्प्रयोजकोऽपि न प्रयोक्ता नह्यसौ सम्प्रति पृच्छति किन्तु तूष्णीमास्ते निर्व्यापारत्वात्कारकत्वमेव तस्य नास्ति कुतस्तद्विशेषः कर्तृत्वमिति कर्तृत्वमेव तस्याधीयमानमस्ति प्रश्नक्रियायाः कर्ता त्वं भव यथा, राजा त्वं भव राजत्वमेव तस्याधीयते। यश्च प्रवृत्तक्रियः सम्भावितक्रियो वा प्रयोज्यः कर्त्ता तस्य प्रयोजक: प्रयोक्ता भवतीति तत्र णिग्भवत्येव। अथापि भवतु कर्तृत्वं तथापि न दोष इत्याह पञ्चम्या बाधितत्वादिति विधीयते हि द्रव्यमात्रस्य प्रैषादिषु पञ्चमी एवञ्चैकविषयत्वादुत्पत्रया पञ्चम्यव प्रैषादेरभिहितत्वाद् णिग्न भवतीति अथवा सव्यापारेऽपि प्रयोज्ये परत्वात् 'प्रैषानुज्ञावसरे इति विहितया पञ्चम्या णिग्बाध्यते। प्रैषरूपे प्रयोक्तृव्यापारे णिक् पञ्चमी प्रेषविशिष्टे कर्त्तरि वाच्ये भवतीति समानविषयत्वं ततो णिग् बाध्यते। तर्हि मूलोदाहरणेष्वपि पञ्चमी। प्राप्नोति न। प्रेषणमात्रे णिगुक्तः पञ्चमी तु प्रेषणविशिष्टे कळदौ। यदा तु प्रेषणमात्रं विवक्ष्यते तदा णिग् तद्विशिष्टे तु कर्नादौ पञ्चमी कारयत्वित्यादौ प्रेषणस्यापि प्रेषणविवक्षा।। अथ कृष्यादिष्वनुत्पत्तिर्वक्तव्या एकान्ते तूष्णीमासीने उच्यते पञ्चभिर्हलैः कृषतीति कश्चिद्धि सामर्थ्यातिशयाधुगपत् पञ्चभिर्हलैः कृषेत्पर्यायेण वेति तन्निराकरणायोच्यते एकान्ते तूष्णीमासीन इति तत्र पञ्चभिर्हलैर्भूमिमन्यैः कर्षयतीत्यर्थावगमाद् णिगि सति कृषतीति न प्राप्नोतीति तत्प्रतिषेधो वक्तव्यः। न वक्तव्यो नानाक्रिया कृषेरर्थः । नावश्यं कृषिविलेखन एव वर्तते, किन्तर्हि प्रतिविधानेऽपि। यदसौ भक्तचीवरबलीवर्दैः प्रतिविधानं करोति स कृष्यर्थः अनेकार्थत्वाद्धातूनां कृषिरेव प्रयोजकव्यापारे तत्समर्थाचरणलक्षणे वर्त्तते धातुनैव चोपपदसहितेन तस्यार्थस्य प्रकाशित्वाद् णिगभावः। पदान्तरगम्ये चेति पक्षे आत्मनेपदाभावश्च। यदा तु कृषिर्विलेखन एव वर्तते तदा पञ्चभिर्हलैः कर्षयन्तीति भवत्येव णिग्। अतश्च प्रतिविधाने वर्त्तते यदहरेवासौ न प्रतिविधत्ते तदहरेव च तत् कर्म न प्रवर्तते। तथा पुष्पामित्रो यजते याजका याजयन्तीत्यादौ विपर्यासो वक्तव्यः । अत्र हि पुष्पामित्रो याजयते याजका यजन्तीति प्राप्नोति यजे: प्रक्षेपविशेषवाचित्वात्प्रक्षेपे च ऋत्विजां कर्तृत्वाद्यजमानस्य प्रयोजककतृत्वादिति अत्रापि नानाक्रियावचनत्वान्न भविष्यति नावश्यं यजिर्हविष्प्रक्षेपण एव वर्त्तते किं तर्हि त्यागेऽपि। अहो यजत इत्युच्यते यः सुष्ठ त्यागं करोति तञ्च पुष्पमित्रः करोति याजकाः प्रयोजयन्ति। एवं त्यागववनाश्रयेण यः प्रयोगस्तद्विपरीतः प्रक्षेपवचनेन भवतीत्यदोषः। वाधिकार इत्यादिना तस्य विकल्पार्थस्य प्रवृत्तेरवधिं दर्शयति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 698