Book Title: Dhaturatnakar Part 2
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
View full book text
________________
6
प्रयोक्तृव्यापारविशिष्टेऽर्थे यो धातुर्वर्त्तते तस्मात्तद्द्योतको भवतीति, आहोस्वित्प्रत्ययस्य विशेषणं प्रयोक्तृव्यापारेऽभिधेय इति । अन्वयव्यतिरेकाभ्यां हि शास्त्रे प्रकृतिप्रत्यययोरर्थनिर्णयः, तौ चात्राव्यवस्थितौ क्वचिद् णिगभावे प्रेषणादिप्रयोक्तृव्यापारो गम्यते यथा पञ्चभिर्हलैः कृषतीति क्वचिद् णिग्युत्पन्ने प्रेषणादेः प्रतिपत्तिः । यथा पाचयतीत्यतो यः संशयीत प्रकृत्यर्थविशेषणप्रत्ययार्थौ प्रति तस्य सन्देहापनोदार्थमाह-तद्व्यापारेऽभिधेय इति । प्रकृत्यर्थविशेषणे हि प्रयोज्यप्रयोजकयोर्व्यापारौ तुल्यकक्षतया धातुनाभिधीयेते इति धातुवाच्यव्यापारसाम्यात्कर्त्रीरपि साम्यमिति द्वयोरपि तयोस्तिवादिनाभिधानं स्यादतश्च पाचयत्योदनं चैत्रेण मैत्र इति प्रयोक्तव्ये पाचयतश्चैत्रमैत्राविति स्यात् । णिक्प्रत्ययस्तु स्वार्थिकः स्वार्थिकाश्च द्विप्रकारा भवन्ति केचित्प्रकृत्यर्थविशेषकाः केचिन्निरर्थकास्तद्यथा शुकतर इति प्रकृत्यर्थमेव सातिशयं तरप् प्रकाशयति, यावक इति त्वनर्थको यावशब्देनैव स्वार्थस्य निर्भरमुक्तत्वाद् यावकशब्दस्तु कविभिः प्रयुक्त इत्यस्त व्युत्पत्तिरारभ्यते तथैवायं प्रयोक्तृव्यापारविशिष्टधात्वर्थे विधीयमानोऽनर्थक एव । प्रत्ययार्थविशेषणपक्षे तु प्रेषणादे: प्रयोक्तृव्यापारस्य प्राधान्यात्तत्कत्तुरेवाभिधानं न्याय्यम् । इह च गमितो ग्रामं चैत्रो मैत्रणेति गमिवाच्यस्यैवार्थस्य णिगन्तेन प्रतीतिर्नाधिकस्येति गत्यर्थाकर्मकेति कर्त्तरि क्तः स्यात् प्रयोजकव्यापारस्य गमिवाच्यत्वात् तस्य, प्रयोजके कर्त्तरि क्तः स्यात् प्रयोज्यस्य तु कर्मत्वात्। तत्रैव च क्त इष्यते । तदुक्तम्, अप्रधाने दुहादीनां ण्यन्ते कर्त्तुश्च कर्मणः । इह च व्यहिं हिंसार्थस्यानतिरेकात् क्रियाव्यतिहार इत्यगितहिंसेते प्रतिषेधः स्यात् । प्रत्यार्थे तु प्रेषणादिरधिकोऽर्थ उपजायत इति नायं दोषः । तदैवं तत्र णिपक्षे पाचयत्योदनं चैत्रेण मैत्र इति प्रयोज्ये कर्त्तरि कर्मसंज्ञा स्यात् णिगर्थस्य प्राधान्यात् तद् व्यापारेण व्याप्यत्वात् तथा ग्रामं गमयति ग्रामाय गमयतीतिगत्यर्थस्य व्यतिरिक्तस्याप्राधान्याद् गतेर्नवानाप्त इति द्वितीयाचतुर्थ्यो न स्याताम्। तथा एघोदकस्योपस्कारयतीति करोत्यर्थस्य व्यतिरिक्तत्वात् "कृगः प्रतियत्न" इति षष्ठी न स्यात् एवमभिषावयति परिषावयतीति क्रियान्तरयोगादभ्यादीनां सुनीतिं प्रत्यनुपसर्गत्वात् षत्वं न स्यात् । नैष दोषः । गम्यादयस्तावदन्तर्भूतग्रामादिसम्बद्धा एव प्रेषणेन सम्बध्यन्त इति तत्काल एवान्तरङ्गत्वाद् द्वितीयादिकार्योपपत्तिः । यच्च प्रोक्तं प्रयोज्यकर्त्तरि कर्मसंज्ञेति तत्र वाच्यम्, “गतिबोधे" ति नियमार्थत्वादेतेषामेव ण्यन्तानां कर्त्ता कर्मसंज्ञो भवति नान्येषाम् । प्रकृत्यर्थविशिष्टो हि प्रेषणादिर्णिगाभिधीयते तत्र धातुवाच्येऽर्थे प्रयोज्यः स्वतन्त्रः प्रेषणादिना आप्यमानस्तु कर्मसंज्ञाविषयतामापद्यते, तत्र किं धात्वर्थनिमित्तस्वातन्त्र्यसमाश्रयेण कर्तृसंज्ञास्ति उत प्रेषणादिना आप्यमानत्वात्कर्मसंज्ञेति विचारणायां प्रयोज्यव्यापारस्याप्राधान्यात् प्रधाने संस्कारप्रयोजके सम्भवति गुणः स्वसंस्कारं न प्रयुङ्क्त इति प्रधानकर्मसंज्ञानिमित्तस्य कार्यस्य युक्तत्वान्नियमेन तु प्रधानप्रयुक्तकार्यव्यावृत्तौ गुणनिमित्तकार्यसद्भावात् कर्तृसंज्ञैवाप्रतिक्षस्वसंस्कारप्रयोजिकेति । किञ्चान्वयव्यतिरेकाभ्यां भूयोविषायाभ्यां प्रत्ययार्थविशेषणपक्षस्योपपत्रत्वम्, गम्यते हि व्यतिरिक्तमर्थान्तरं पचति पाचयतीति च । व्यापारश्चेत्यादिना व्यापारभेदानाह-तत्रेति, तेषु व्यापारभेदेषु प्रेरणादिष्वित्यर्थः । कुर्वन्तमित्यादिना कारयतीत्यादौ विग्रहं दर्शयति, अन्ये तु कुर्वन्तमन्योऽनुयुङ्क्ते कुविंति विगृण्हन्ति, तत्केचित्र क्षमन्ते, यतः प्रवृत्तत्रियस्य सम्भावितक्रियस्य वा नियोगे णिग्विधीयते पञ्चमी तु द्रव्यमात्रस्य आक्रम्य क्रियाणां विनियुज्यमानस्य । तदुक्तं हरिणा - द्रव्यमात्रस्य तु प्रैषे प्रच्छादेर्लोड् विधीयते । सक्रियस्य प्रयोगस्तु यदा स विषयो णिगः ।। १ ।। युक्तञ्चैवं स्वतन्त्रस्य प्रयोजको भवति स्वातन्त्र्यञ्चैतस्य प्रवृत्तत्रियत्वेन सम्भावितत्रियत्वेन वा यावन्नावगतं तावत्कथं तत्प्रयोजकं स्यात् तद्व्यापारे च कथं णिगुत्पद्येत पञ्चमी त्वाधीयमानकर्मकर्तृभावे द्रव्ये नियुज्यमानेऽतश्च पञ्चमीविषयस्य नियोगस्य णिग्विषयस्य भेदात् पञ्चम्या णिगोऽर्थदर्शनं न न्याय्यम् । किञ्चास्मादपि कारणादनयोर्नियोगयोर्भेदः । पञ्चमीविषयो हि नियोगः प्रयोक्तृधर्मः णिग्विषयस्तु, नियोगः क्वचित्प्रयोक्तृधर्मः क्वचिदभिधेयधर्मः कारयति कारयतीति । अन्ये तु भेदमपरामृश्योभावपि नियोगविषयाविति पञ्चम्या णिगोऽर्थं दर्शयन्ति तच्च न वाक्यस्य सर्वत्राभिन्नार्थत्वाद् तथा पचतीति पाचकः पचतीतिक्रिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 698