Book Title: Dhatupradip
Author(s): Srishchandra Chakravarti
Publisher: Varendra Research Society
View full book text
________________ 143 / धातुप्रदीपः। आङ् क्रन्द सातत्ये / 186 / आङः परः क्रन्दः सातत्ये शिचमुत्पादयति / आक्रन्दयति / आक्रन्दः / आक्रन्दः / प्राक्रन्दतीत्यन्यत्र / लस शिल्पयोगे। 187 / लासयति / अन्यत्र लसति / (29) तसि भूष अलङ्कार / 188 / 18 / अवतंसयति वतंसयति / अवतंसः वतंसः / भूषयति / अबूभुषत् / भूषयते रथ्यां स्वयमेव / अन्यत्र भूषति / मोक्ष असने / 180 / असनं क्षेपः / मोक्षयति शरान्। मोक्षयति अस्त्रम् / अहं पूजायाम् / 181 / अहंयति / अहणा। अन्यत्राहति / ज्ञा नियोजने / 182 / आज्ञापयति / अन्यत्र जानाति / भज विश्राणने / 183 / भाजयति। भाजः। भाजा भाजी। अन्यत्र भजति भजते / शृधु प्रसहने / 184 / शर्धयति / अन्यत्र शर्धते / यत निकारोपस्कारयोः / 185 / यातयति / यातना। अन्यत्र यतते / निरश्च धान्यधनयोः / निर्यातयति / प्रतिदाने पूर्ववदुदाहृतम् / ___ वस स्नेहनच्छेदापहरणेषु / 186 / वासयति। वासना / , अवहरणे च / प्रवासयत्यपराधिनम् / अन्यत्र वसति। चर संशये / 187 / विचारयति / विचारणा। अन्यत्र चरति / यु हसने / 188 / च्यावयति। अन्यत्र च्यवते / भुवोऽवकल्कने / 188 / अवलल्कनं पीड़नम् / भावयति ब्रामणान् तपः। कृप च / 200 / कल्पयति / अन्यत्र कल्पते। . रक लक आखादने / 201 / 202 / राकयति / लाकयति / रघ लग इत्य के / राधयति लागयति / प्रचु विशेषणे / 203 / अञ्चयति / अन्यत्राञ्चति / लिगि चित्रीकरण / 204 1 लिङ्गयति / अन्यत्र लिङ्गति / मुद संसर्गे / 205 / मोदयति सक्तन् कृतेन / अन्यत्र मोदते / (29) क्वचिदछं मूर्धन्धान्तः पठ्यते / चपुस्तके मूर्धन्धान्तः /

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166