Book Title: Dharmtirth Part 01
Author(s): Yugbhushanvijay
Publisher: Gangotri Granthmala
View full book text
________________
૩૫૬
પરિશિષ્ટ - ભાવતીર્થ - ચતુર્વિધ શ્રીસંઘ प्रत्येकबुद्धसङ्कल्पनेन कृतं तदा कल्पते, तीर्थकरप्रत्येकबुद्धानां सङ्घातीतत्वेन सङ्घमध्यवर्तिभिः साधुभिः सह साधर्मिकत्वाभावात्, 'संजयाण उ विसरिसनामाणवि न कप्पे' इति वचनाच्चार्थापत्त्या यावन्तो देवदत्ता इत्यादौ विसदृशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यं। ..
श्लोक १४२-१४३ टीका २ बृहत्कल्पसूत्र + 'शास्ता' तीर्थकरः स साधर्मिको लिङ्गतः प्रवचनतोऽपि न भवति। तथाहि-लिङ्गतः सार्मिकः स उच्यते यो रजोहरणादिलिङ्गधारी भवति, तच्च लिङ्गमस्य भगवतो नास्ति तथाकल्पत्वात्, अतो न लिङ्गतः साधर्मिकः। प्रवचनतोऽपि साधर्मिकः सोऽभिधीयते यश्चतुर्वर्णसङ्घाभ्यन्तरवर्ती भवति, -> "पवयणसंघेयरे" इति वचनात्; <भगवांश्च तत्प्रवर्तकतया न तदभ्यन्तरवर्ती किन्तु चतुर्वर्णस्यापि सङ्घस्याधिपतिः, ततो न प्रवचनतोऽपि सार्मिक इति। अतः 'तस्य' तीर्थकरस्यार्थाय कृतं यतीनां कल्पते।
श्लोक १७८२ टीका ३ षड्दर्शनसमुच्चय टीका + नापि पुरुषानभिवन्द्यत्वेन स्त्रीणां हीनत्वम्, यतस्तदपि किं सामान्येन गुणाधिकपुरुषापेक्षया वा। आद्योऽसिद्धः; तीर्थकरजनन्यादयो हि शनैरपि पूज्यन्ते किमङ्ग! शेषपुरुषैः। द्वितीयश्चेत्, तदा गणधरा अपि तीर्थकरैर्नाभिवन्द्यन्त इति तेषामपि हीनत्वान्मोक्षो न स्यात्। तथा चतुर्वर्णस्य सङ्घस्य तीर्थकरैर्वन्द्यत्वात्सङ्घान्तर्गतत्वेन संयतीनामपि तीर्थकरवन्द्यत्वाभ्युपगमात्कथं स्त्रीणां हीनत्वम्।
श्लोक ५२ टीका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 391 392 393 394 395 396