Book Title: Deshna Chintamani Part 03 04 05
Author(s): Vijaypadmsuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 614
________________ ॥ तत्वामृतभावना ॥ (अनुष्टुवृत्तम्) प्रणम्य स्तंभताधीशं नेमिसूरीश्वरं मुदा । कुर्वे स्वान्योपकाराय श्रीतस्वामृतभावनाम् ॥१॥ उन्मीलिताऽऽत्मदृष्टिम श्रीजिनेन्द्रप्रसादतः । विभावतिमिरं नष्टं तदद्यानंदवासरः ॥२॥ फलितो धर्मफल्पद्रुः प्रसन्नाः परमेश्वराः । यतोऽद्यात्मगुणारामे विरामि प्रमोदतः ॥३॥ दर्शनज्ञानचारित्राराधनोत्साहदायकाः । सांनिध्याधायकास्तत्र ये वंदे तानहर्निशम् ॥४॥ स्वभावात्परनिष्ठासदोषान्पश्यन्ति ये सदा। मध्यस्थभावना तेषु द्वेषलेशोऽपि नास्ति मे॥५॥ समीहे मद्रमेतेषां सदोषोचारकारिणाम् । मत्वोपतिमातन्वे दोषशुद्धिं हितावहाम् ॥६॥ स्वचिंता हितदा तथ्या परचिंता न शांतिदा । उभयोईन्ति भद्रं सा तत्सृतं परचिंतया ॥७॥ एकोऽहं नास्ति मे कश्चिन्नाप्यहं कस्यचिद्भवे । यन्मदीयं च मालिन्यं तज्ज्ञेयं कर्मबंधनैः॥८॥ रागद्वेषाविति प्रोक्ते कर्मबंधनकारणे । सरलत्वतोषतः शीघ्रं नश्यते रागबंधनम् ॥९॥ क्षमानम्रत्वहेतुम्यां द्वेषनाशो भवेद् ध्रुवम् । रागद्वेषविहीनात्मा नमस्याईः फलप्रदः ॥१०॥ ज्ञानदर्शनचारित्रैर्युतोऽहं शाश्वतः सदा । द्रव्याथिकेन चानित्यः पर्यायस्थितिमावतः ॥११॥ देहे वर्णादयो धर्मा नैते वर्तन्त आत्मनि। तस्मान्नैक्यं द्वयोरेवमुच्चरंति मनीषिणः ॥१२॥ मया संयोगजन्याऽऽप्ता दुःखश्रेणिर्भवे भवे। तेन संयोगसंसर्ग व्युन्मजामि त्रिधा सुदा ॥१३॥ संसारे ममताहेतुः संयोगः परिहारतः । तस्य सौख्यं भवेत्सत्यं प्रशमादिसमन्वितम् ॥१४॥ कदाऽहं समतालीनः सर्वोपाधिविवर्जितः। तीर्थकृदयानसंपन्नः भविष्यामि प्रमोदमाक् ॥१५॥ कोऽहं कि मे कथं वर्तेऽधुना मे कीदृशी स्थितिःकाकालः कीदृशं क्षेत्रमित्यालोचयति प्रधीः॥१६॥ मेऽधुना मानसे कीदृग् भाव आत्महित कियत् । कृतं मयाऽवशिष्टं च किमेतदवधारयेत्॥१७॥ अनंतशक्तिसंपन्नोऽप्ययमात्मा विमोहतः। मजते विविधं भावं संसाराखेटके निशम्॥१८॥ जीव ! जानीहि स्वल्पस्मादधमान्मोहपाशतोऽ। ___ नन्ताङ्गिनो नारकत्वं प्राप्तास्तत्त्यागतः सुखम् ॥१९॥ महापुण्योदयेनाप्तो नृभवो देवदुर्लभः । गतक्षणार्पणे नैव कोऽपि शक्तो धनैरपि ॥२०॥ आसनसिद्धिकास्तत्र लभन्ते धर्ममाईतम्। यत्मभावेण सिद्धयंति सिद्धाःसेत्स्यन्ति भाविनः॥२१॥ नेहे विधर्मसाम्राज्यं रंकत्वं धर्मसंयुतम् । वरं मन्ये यतो नाशः तस्य स्यादर्मसाधनात् ॥२२॥ जीव ! केशाः सिता जाता न जाता मतिशुक्लता। . विषयेषु कषायेष्वासक्तिस्तन्मोहभितम् ॥२३॥ त्यक्त्वा तान्विषयादीन्ये सिंहशूराः समाश्रिताः । सत्संयमं बाल्यकाले वंदे तत्पादपङ्कमम् ॥४॥ संजातस्य ध्रुवं मृत्युः चारित्रोत्कर्षशालिनाम् । प्रशस्यं मरणं प्रोक्तं सर्वगोत्कर्षभूषितम् ॥२५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 612 613 614 615 616