Book Title: Danadikulaksangrah
Author(s): Devendrasuri, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 245
________________ गमनोत्सुको बभूव. अथ तं वृतांत श्रीपाश्र्वनायकूमारः श्रुत्वा पितुः पार्वे समागत्य विज्ञप्ति चकार हे पितमयि सति संग्रामाथं भवतां गमनमनुचितमेव । अतः कृपां विधाय भामेव तत्र प्रयाणायादेशं देहि। राजापि तस्यात्याग्रहं विज्ञाय प्रयाणायादेशं दत्तवान् । पितरादेशमासाद्य श्रीपार्श्वनाथः प्रयाणाभिमुखोऽभवदित इंद्रेण प्रभं रणप्रयाणोद्यतमवधिना ॥२४१।। | विज्ञाय निजमातलिसारथियुत्तो दिव्यरथः प्रेषितस्तदा प्रभुरपि वैरितिमिरततिरस्काराय सुर्य इव तं दिव्यस्यंदनमारोह । क्रमेण नियमितप्रयाणानि कर्वन सकलबलयतः प्रभुः कुशस्थलपूरपरिसरे समाजगाम । अय मूरिसंन्यसंयुतं श्रीपाश्र्वनायं तत्र समागतं श्रुत्वा कलिंगनृपस्तस्य तेजोऽसमानो भीतः सन् कंठे कुठारं विधाय पार्श्वप्रभोश्चरणयोः पतितो निजापराधं च क्षमयित्वा पश्चाद्वलितः । अथ हर्षफुल्लितांतःकरणः प्रसेनजितराजा निजपुत्री प्रभावती परस्कृत्य श्रीपार्श्वप्रभोः समीपे समागत्य विज्ञपयासास, हे स्वामिन् ! भवदनुरक्तां ममता नवयोवनां पत्रों परिणीय मम मनोरथं सफलोकरु । संसारविरक्तो भगवानुवाच-हे राजन् ! मम पितुरादेशस्तव शत्रुतो रक्षणकरणरूप एवास्ति । अतोऽहमत्र कन्यापाणिग्रहणं नैव करिष्यामीत्युक्त्वा निजसैन्ययुतः श्रीपार्श्वनाथो निजनगरं प्रति प्रयाणमकरोत वाणारस्यां चागत्य पितुः प्रणामं कृतवान् । अथ प्रभु प्रस्थितं विज्ञाय प्रभावत्या विविधविलापान कतुं प्रारब्धं, तदा प्रसेनजितराजा तामाश्वास्य IN सादं च गृहीत्वा स्वयं वाणारस्यामागत्याश्वसेननपाय विज्ञप्ति कृतवान् । प्रभुरपि ज्ञानेन निजभोग्यकर्म विज्ञाय

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292