Book Title: Danadikulaksangrah
Author(s): Devendrasuri, Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
XI भणितं । कि तेन भणितमित्याह-सव्वं बिलविशं गीझं, सवनर्से विडंबणा । सव्वे आभरणा भारा, सव्वे फामा
दुहावहा ||१|| इति भणिते सति राज्ञा प्रोक्तं-हे मंत्रिन् । रागरंगस्थाने कथं विषादवचः ? स्वयंबुद्धमंत्रिणा प्रोक्त-हे स्वामिन ! ज्ञानिनो मुखात्तवायुर्मासंकप्रमाणं मया श्रुतमस्ति । राजा तद्वचनं श्रुत्वा वैराग्येण चितां कत्तुं लग्नः । तदा स्वयंबुद्धमंत्री कथयति-स्वामिन् ! चितां मा कुरु । एकदिनप्रतिपालितापि दीक्षा मोक्षप्रदायिनी भवति । ततः स मासैकानशनं प्रतिपाल्य मृतः इति चतुर्थो भवः ॥४॥
तत ईशानदेवलोके ललितांगनामा देवो जातः । तत्र तस्य स्वयंप्रभा नाम्नी देवी वर्त्तते । तया सहातिप्रेमवान् स संतिष्ठते । अर्थकदायुषि पूणे सति सा स्वयंप्रभा देवी प्रच्युता । तत: पश्चात्स ललितांगनामा देवो बहु विरहदुःखं करतुं लग्नः, तदवसरे स्वयंबुद्धमंत्रिजीवो धर्म पालयित्वा ईशानदेवलोके सामान्येंद्रो जातः । स तं प्रतिबोधयितुं लग्न:, परं स्नेहवशात्स न प्रतिबुध्यति । ततोऽनंतरं स सामानिकः सुरो यदा ज्ञानेन बिलोकयति तदा धातकीखंडे पूर्वमहाविदेहे नंदिग्रामे नागिलनामा दरिद्री परिवसति, तस्य गृहे नागश्रीभार्या, तया षण्णां पुत्रीणामुपरि सप्तमी पुत्री प्रता । सा चाऽवल्लभत्वेन निर्नामिकेति नाम्ना ख्याति गता, वृद्धा जाता । अन्यदैकस्मिन् महोत्सवे धनवतां लोकानां पुत्र्यः शृंगारादिपरिवेष्टितास्तया दृष्टा: ! ताश्च सुखभक्षिकादींश्च भक्षयंती. हृष्ट्वा निर्नामिकया स्वमातुरग्रे शृंगारादिवस्तु मागितं । दुःखिनी माताबवीत्-रे गच्छ ! अंबरतिलकनामपर्वतोपरि चटित्वा झंपापातं कुरु ! इति ध्रुत्वा निर्नामिका दुःखिनी सती गहानिर्गत्य अंबरतिलकपर्वतोपरि चटित्वा

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 292