Book Title: Danadi Prakaranam
Author(s): Suracharya, Kalyanbodhisuri
Publisher: Jinshasan Aradhak Trust
View full book text
________________
अथ प्रशस्तिः
श्रीमते वीरनाथाय, कारूण्यपुण्यपाथसे । चरमतीर्थनाथाय, परोपकारिणे नमः ।।१।। गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः । तत्परम्परयाऽऽयात-यतीन्द्रेभ्यो नमो नमः ||२||
शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः ||३|| ततोऽपि कमलः सूरिः, संयमकमलाकरः । उपाध्यायस्तथा वीरो वीर आन्तरविग्रहे ||४||
सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः । ततोऽपि प्रेमसूरीशः, सिद्धान्तकमहोदधिः ||५|| भुवनभानुसूरीश- स्ततो न्यायविशारदः । पंन्यासोऽस्यानुजः पद्मः, समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः । वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ||७||
तत्पादपङ्कजालिना, सूरिकल्याणबोधिना । सन्दृब्धोऽयं प्रबन्धस्तु कुर्यात् सर्वस्य मङ्गलम् ।।८।।

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228