Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 238
________________ ६५-६६) पडशतिनामा चतुर्थः कर्मबन्धः। १९१ त्याल्यानावरणक्षयोपशमजस्वेन क्षायोपशमिकमाये वर्तत एवेति ॥ ६५ ॥ . अनाणमसिद्धत्तासंजमलेसाकसायगइवेया। .. . मिच्छं तुरिए भव्यामव्वत्तजियत्तपरिणामे ॥६६॥ अज्ञानम् १ असिद्धत्वम् २ असंयमः ३ लेश्याः-कृष्णनीलकापोततेजःपप्रशुक्ललेश्याभेदात षट् ९ कषायाः-क्रोधमानमायालोमाख्याश्चत्वारः १३ गतिः-नरकतिर्यब्यनुष्यसुरगतिभेदाचतुर्धा १७ बेदाः-स्त्रीपुंनपुंसकाल्यास्त्रयः २० मिथ्यात्वम् २१ इत्येते एकविंशतिभेदाः 'तुर्ये चतुर्थे औदयिके मावे भवन्तीत्यक्षरार्थः । भावार्थः पुनरयम्-इहासदध्यवसायात्मकं सज्ज्ञानमप्यज्ञानं तश्च मिथ्यात्वोदयजमेव । यदभ्यधायि जह दुवयणमवयणं, कुच्छिय सीलं असीलमसईए।। भन्नइ तह नाणं पि हु, मिच्छद्दिट्टिस्स अन्नाणं ॥ (विशेषा० गा० ५२०) असिद्धत्वमपि सिद्धत्वाभावरूपमष्टप्रकारकर्मोदयजमेव । असंयमः-अविरतत्वं तदप्यप्रत्याल्यानावरणोदयाद् जायते । लेश्यास्तु येषां मते कषायनिष्यन्दो लेश्याः तन्मतेन कषायमोहनीयोदयजत्वाद् औदयिक्यः, यन्मतेन तु योगपरिणामो लेश्याः तदभिप्रायेण योगत्रयजनककर्मोदयप्रभवाः, येषां त्वष्टकर्मपरिणामो लेश्यास्तन्मतेन संसारित्वासिद्धत्ववद् अष्टप्रकारकर्मोदयजा इति । कषायाः-क्रोधमानमायालोभरूपा मोहनीयकर्मोदयादेव भवन्ति । इह गतयःगतिनामकर्मोदयादेव नारकत्वतिर्यक्त्वमनुजत्वदेवत्वलक्षणपर्याया जायन्त इति । वेदाः-स्त्रीपुंनपुंसकाख्या नोकषायमोहनीयोदयादेव जायमानाः स्पष्टमौदयिका एवेति । मिथ्यात्वमपि अतत्वश्रद्धानरूपं मिथ्यात्वमोहनीयोदयजमेव इत्यौदयिकं प्रतीतमिति ।। ननु निद्रापञ्चकसातादिवेदनीयहास्यरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि कर्मोदयजन्याः सन्ति तत् किमित्येतावन्त एवैते निर्दिष्टाः ?, सत्यम् , उपलक्षणत्वादन्येऽपि द्रष्टव्याः, केवलं पूर्वशास्त्रेषु प्राय एतावन्त एव निर्दिष्टा दृश्यन्त इत्यत्राप्येतावन्त एवास्माभिः प्रदर्शिताः । तथा भन्यत्वम् १ अभव्यत्वं २ जीवत्वम् ३ इत्येते त्रयो भेदाः पारिणामिके भावे भवन्ति । तदेवं द्विमेद औपशमिको भावः २ नवभेदः क्षायिकः ९ अष्टादशभेदः क्षायोपशमिकः १८ एकविंशतिमेद औदयिकः २१ त्रिभेदः पारिणामिकः ३ । सर्वेऽपि भावपञ्चकमेदास्त्रिपञ्चाशदिति ॥६६॥ प्ररूपितं सप्रमेदं भावपञ्चकम् । अधुना सान्निपातिकात्यषष्ठभावमेदप्ररूपणायोपक्रम्यतेतत्र च यद्यप्यौपशमिकादिभावानां पञ्चानामपि द्विकादिसंयोगभङ्गाः षडिशतिर्मवन्ति, तद्यथा औपशमिक १ क्षायिक २ क्षायोपशमिक ३ औदयिक ४ पारिणामिक ५ इति भावपञ्चक पट्टकादावालिख्यते ततो दश द्विकसंयोगा अक्षसंचारणया लभ्यन्ते, दशैव त्रिकसंयोगाः, पञ्च चतुष्कसंयोगाः, एकः पञ्चकसंयोग इति । तथापि षडेव संयोगा जीवेष्वविरुद्धाः सम्भवन्ति । शेषास्तु विंशतिः संयोगभगाः प्ररूपणामात्रभावित्वेनाऽसम्भविन एव, अतः सम्भविषड्भेदद्वारेण गत्यायामिता यावन्तः सान्निपातिकमावभेदाः सम्भवन्ति यावन्तश्च न सम्भवन्ति तदेतत् प्रकटयमाह १ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलमसत्याः । भण्यते तथा ज्ञानमपि खलु मिथ्यादृष्टेरशानम् ॥

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289