Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
७४-७६ ]
पडशीतिनामा चतुर्थः कर्मग्रन्थः ।
२०३
से णं पले सिद्धत्थाणं भरिए, तओ णं तेहिं सिद्धत्थए हिं दीवसमुद्दाणं उद्धारे घिप्पर, एगे वे गे समुद्दे एगे दीवे एगे समुद्दे एवं खिप्पमाणेहिं खिप्पमाणेहिं जावइया णं दीवसमुद्दा तेहिं सिद्धत्थएहिं अफुन्ना एस णं एवइए खित्ते पल्ले आइडे । से णं पल्ले सिद्धत्थयाणं भरिए, तओ णं तेहिं सिद्धत्थहिं दीवसमुद्दाणं उद्धारे घिप्पइ, एगे दीवे एगे समुद्दे एगे दीवे एगे समुदे एवं खिप्पमाणेहिं खिप्पमाणेहिं जावइया णं दीवसमुद्दा तेहिं सिद्धत्थएहिं अप्फुन्ना एस णं एवइए खिसे पल्ले पढमा सलागा ( पत्र २३५ - २ ) इति ।
1
यश्च "पल्लाणवडिय" ( गा० ७३ ) इत्यादिगाथायां प्रथमस्थानवस्थितव्यपदेशोऽसौ योग्यतामात्रेण राज्यार्हकुमारस्य राजव्यपदेशवद् द्रष्टव्यः । " इय सलागखवणेण पुन्नो बीओ य" ति 'इति' अमुना पूर्वप्रदर्शितशलाकाक्षेपणप्रकारेण 'द्वितीयश्च' शलाकापल्यः पूर्णो भृतो भवति सशिख इति यावत् । इयमत्र भावना - ततो यस्मिन् द्वीपे समुद्रे वा स एष द्वितीयपल्यो निष्ठां गतस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूर्ववत् सर्पः पूर्यते, ततस्तं तावत्प्रमाणं पल्यमुत्पाट्य ततो निष्ठितस्थानात् परतो द्वीपसमुद्रेष्वेकैकं सर्षपं प्रक्षिपेत् यावदसौ निष्ठितो भवति, ततो द्वितीया शलाका सर्षपरूपा शलाकापल्ये प्रक्षिप्यते । ततोऽपि यस्मिन् द्वीपे समुद्रे वा स एष तृतीयोऽनवस्थितपल्यो निष्ठितस्तदन्ता मूलतः सर्वेऽपि ये द्वीपसमुद्रास्तावत्प्रमाणः पुनरन्यः पल्यः परिकल्प्यते पूर्ववत् सर्षपैरापूर्यते, ततस्तं तावत्प्रमाणं पल्यमुत्पाट्य ततो निष्ठितस्थानात् परतो द्वीपसमुद्रेष्वेकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततस्तृतीया सर्पपरूपा शलाका शलाकापल्ये प्रक्षिप्यते । एवमनेन क्रमेण पुनः पुनरaatraversed भरण रिक्तीकरणलब्धैकैकसर्षपरूपाभिः शलाकाभिः शलाकापल्यो यथोक्तप्रमाणः सशिखाकस्तावत् पूरयितव्यो यावत् तत्रैको ऽप्यन्यः सर्षपो न मातीति । "बीओ य" त्ति इत्यत्र चशब्दात् पूर्वपरिपाट्यागतोऽनवस्थितपल्यः सर्षपैरापूरणीयः, ततः किं विधेयम् ? इत्याह"ओ पुत्रं पिव तम्मि उद्धरिए" त्ति ' ततः शलाकापल्यपूर्वपरिपाट्यागतानवस्थितपल्यापूरणानन्तरं पूर्ववत् 'तस्मिन्' शलाकापल्ये उद्धृते सति ॥ ७५ ॥
वीणे सलाग तइए, एवं पढमेहिं चीययं भरसु ।
तेहि य तइयं तेहि य, तुरियं जा किर फुडा चउरो ॥ ७६ ॥ 'क्षीणे च' निर्लेपे सति सर्षपरूपा शलाका 'तृतीये' प्रतिशलाकापल्ये प्रक्षिप्यते इतीयमक्षरगमनिका । भावार्थस्त्वयम् -- ततः शलाकापल्यापूरणानन्तरं तं शलाकापल्यं वामकरतले कृत्वा पूर्वानवस्थितपल्यचरमसर्षपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततः प्रतिशलाकापल्ये सर्पपरूपा प्रथमा प्रतिशलाका प्रक्षिप्यते । ततोऽनन्तरोक्तोऽनवस्थितपल्य उत्पाक्ष्यते, ततः शलाकापल्यसर्पपाक्रान्ताद् द्वीपात्
1
१ स पल्यः सिद्धार्थकैर्भूतः, ततस्तैः सिद्धार्थकद्वीपसमुद्राणां उद्धारो गृह्यते, एको द्वीपे एकः समुद्रे एको द्वीपे एकः समुद्रे एवं क्षिप्यमाणैः क्षिप्यमाणैः यावन्तो द्वीपसमुद्रास्तैः सिद्धार्थकैः स्पृष्टा एष एतावान् क्षेत्र पत्य आदिष्टः । स पल्यः सिद्धार्थकैर्भूतः, ततस्तैः सिद्धार्थकैद्वीपसमुद्राणामुद्धारो गृह्यते, एको द्वीपे एकः समुद्रे एको द्वीपे एकः समुद्रे एवं क्षिप्यमाणैः क्षिप्यमाणैः यावन्तो द्वीपसमुद्रास्तैः सिद्धार्थकैः स्पृष्टा एषा एतावति क्षेत्रे पत्ये प्रथमा शलाका ॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289