Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२०४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
(गाथा समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेष्वेकैकं सर्षपं प्रक्षिपेद् यावदसौ निःशेषतो रित्तो भवति । ततः शलाकापल्ये पुनरपि सर्षपरूपा एका शलाका प्रक्षिप्यते । ततोऽनन्तरोक्तानवस्थितपल्यचरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तदन्तमनवस्थितपल्यं सर्षपैर्भूत्वा ततः परतः पुनरप्येकै सर्षपं प्रतिद्वीपं प्रतिसमुद्रं च प्रक्षिपे यावदसौ निष्ठितो भवति, ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते । एवमपरापरानवस्थितपल्यापूरणरिक्तीकरणलब्धैकैकसर्षपैर्यदा शलाकापल्य आपूरितो भवति पूर्वपरिपाट्या चानवस्थितपल्यस्तदा शलाकापल्यमुत्पाट्य प्राक्तनानवस्थितपल्यचरमसर्षपाकान्ताद् द्वीपात् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रं चैकैकं सर्षपं प्रक्षिपेद् यावदसौ निलेपो भवति, ततः प्रतिशलाकापल्ये द्वितीया शलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाट्यानन्तररिक्तीकृतशलाकापल्यचरमसर्षपाक्रान्ताद् द्वीपात् समुद्राद्वा परतः पूर्वक्रमेण द्वीपसमुद्रेवेकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततः पुनरपि शलाकापल्ये सर्षपरूपा शलाका प्रक्षिप्यते । यत्र चासो द्वीपे समुद्रे वा निष्ठितस्तावत्प्रमाणविस्तरात्मकमनवस्थितपल्यं सर्षपैरापूर्य ततः परतः पूर्वक्रमेण द्वीपसमुद्रप्वकैकं सर्षपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततः शलाकापल्ये द्वितीया शलाका सर्पपरूपा प्रक्षिप्यते । एवमनेन कमेण ताबद् वक्तव्यं यावन् त्रयोऽपि प्रतिशलाकापल्यशलाकापल्यानवस्थितपल्याः परिपूर्णमापूरिता भवन्ति । ततः प्रतिशलाकापल्यमुत्पाट्य निष्ठितस्थानात् परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्पपं प्रक्षिपेद् यावदसौ निष्ठितो भवति, ततो महाशलाकापल्ये एका सर्षपरूपा शलाका प्रक्षिप्यते । ततः शलाकापल्यमुत्पाट्य प्रतिशलाकापल्यगतचरमसर्षपाक्रान्ताद् द्वीपान् समुद्राद्वा परतः प्रतिद्वीपं प्रतिसमुद्रमेकैकं सर्षपं प्रक्षिपेद यावदसौं निष्ठितो भवति, ततः प्रतिशलाकापल्ये प्रतिगलाका प्रक्षिप्यते । ततोऽनवस्थितपल्यमुत्पाटयेत, उत्पाठ्य च शलाकापल्यगतचरमसर्पपाकान्ताद दीपात परतो द्वीपसमुद्रेष्वेकैकं सर्षपं प्रक्षिपस्तावद् गच्छेद् यावदसौ निःशेषतो रिक्तो भवति, ततः शलाकापल्ये प्रथमा शलाका प्रक्षिप्यते, ततोऽनन्तरोक्तानवस्थितपल्यगतचरमसर्षपाक्रान्तो द्वीपः समुद्रो वा यस्तत्पर्यन्तविस्तरात्मकोऽनवस्थितपल्यः कल्पयित्वा सर्पपैरापूर्यते, ततस्तमुत्पाट्य ततो निष्ठितस्थानात् परतो द्वीपसमुद्रेप्वकैकं सर्षपं प्रक्षिपेद् यावदसौ निर्लेपो भवति, ततो द्वितीया शलाका शलाकापल्ये प्रक्षिप्यते. एवं शलाकापल्य आपूरणीयः, पवमापूरणोत्पाटनप्रक्षेपपरम्परया तावद्द्वक्तव्यं यावन्महाशलाकापल्यप्रतिशलाकापल्यशलाकापल्यानवस्थितपल्याः सर्वेऽपि परिपर्णशिखायुक्ताः समापूरिता भवन्ति । एतदेव निगमयन्नाह---"एवं पढमेहिं" इत्यादि, एवम्' अनेन प्रदर्शितक्रमेण 'प्रथमैः' अनवस्थितपल्यैर्द्वितीयमेव द्वितीयकं-शलाकापल्यं 'भरख' पूरय, 'तैश्च' द्वितीयस्थानवर्तिभिः शलाकापल्यैः 'तृतीय' प्रतिशलाकापल्यं भरस्व, 'तैश्च' प्रतिशलाकापल्यैः 'तुर्य' चतुर्थ महाशलाकापल्यं तावद् भरख यावत् 'किल' इत्याप्तागमवादसंसूचकः ‘स्फुटाः' व्याप्ताः सशिखा भृता इति यावत् 'चत्वारः' चतुःसङ्ख्या अनवस्थितशलाकाप्रतिशलाकामहाशलाकारल्याः पल्या भवन्तीति ॥ ७६ ॥ ततश्चतुर्णा पल्यानां पूर्णत्वे यत् सम्पद्यते तदाह
पढमतिपल्लुद्धरिया, दीवुदही पल्लचउसरिसवा य । सव्वो वि एस रासी, रूवूणो परमसंखिलं ॥ ७७॥

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289