Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। । दीईओवितीयः इत्यर्थः । किञ्च वाचनिकमङ्गलाचरणमन्तरेण मनसापि मङ्गलाचरणाद विघ्नोपशमो भवतीति शिष्यशिक्षार्थ स्वयं मनसा कृताभिमतदैवतप्रणामेन आचरितमङ्गलज्ञापनार्थम् आनन्तार्थकाथशब्दमादौ निबन्ध । तथाच अतः इत्येतच्छब्दात् पञ्चम्यास्तसिल ; तेनातो मनसा कृताभिमतदेवताप्रणाम-. जनितमङ्गलाचरणात् अथानन्तरं दीर्घजीवितीयमध्यायं व्याख्यास्याम इति योजना। किश्च शास्त्र नासङ्गतं प्रयुञ्जीतेत्यत एतद्वन्यप्रणयने का सङ्गतिरित्याशङ्कायां शिष्यजिशासानन्तरमेतद्दीर्घञ्जीवितीयाध्यायाधनेकग्रन्थस्योत्तरखशापनार्थमादौ इति। सम्बन्धोऽप्यायुःशास्त्रयोरभिधानाभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन सममस्य शास्त्रस्य हेयोपादेयज्ञानावान्तरल्यापारस्य साध्यसाधनभावलक्षणः । तदेतत् सर्च, दीर्घ जीवितीयमित्यनेन पदेन दीर्घ जीवितीयशब्दमधिकृत्य कृतप्रयोजनाद्यभिधायकं "धातुसाम्यक्रिया चोक्रा" इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम्। ननु प्रयोजनाभिधानं शास्त्रप्रवृत्तपर्थमिति यदुक्त तन्न युक्त, यतो न प्रयोजनाभिधानमात्रण प्रयोजनवसावधारणम् विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्र'षु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् । अथ मन्यसे-आप्तप्रयोजनाभिधानमेतत् तत् कुतोऽयथार्थत्वम् ? ननु भोः कथमयं प्रयोजनाभिधायी आप्तः ? तदभिहितशास्त्रस्य यथार्थत्वादिति चेत् ; हन्त, न यावच्छास्त्रस्य प्रयोजनवत्त्वावधारणं न तावच्छास्त्रप्रवृत्तिः, न यावच्छास्त्रप्रवृत्तिः न तावच्छास्त्रस्य यथार्थवावधारणम्, न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तु राप्तत्वमवधार्यते, आप्तस्वामवस्तौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते। अथ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् , अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति, कृष्यादावपि हि प्रवृत्तिस्र्थ सन्देहादेव, न हि तत्र कृषीबलानां फललाभावधारणं विद्यते, अन्तरा अवग्रहादेरपि सम्भाव्यमानत्वात्। नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनात् शास्त्रत्वमेव प्रयोजनबत्तासन्देहापदर्शकमस्तु, तथाप्यल प्रयोजनाभिधानेन। नैवम् । न हि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिन तथा प्रवर्त यति, यथाभिप्रेतप्रयोजनविशेषविषयः सन्देह , अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति, अतो ये तावदनवस्ताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमायारविशेषसन्देोत्पादनार्थ प्रयोजनविशेषाभिधानम्। ये पुनः परमर्षेरग्निवेशस्थायत एवावतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेन व प्रवृत्तिरिति युक्त प्रयोजनाभिधान', प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव . प्रवृत्तिरुपपन्ना, न पुनरनेकसंवत्सरले शबोध्ये शास्त्र'; तदेव यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं तथा चानवस्थेति तन्निरस्तं भवति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 1204