________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। । दीईओवितीयः इत्यर्थः । किञ्च वाचनिकमङ्गलाचरणमन्तरेण मनसापि मङ्गलाचरणाद विघ्नोपशमो भवतीति शिष्यशिक्षार्थ स्वयं मनसा कृताभिमतदैवतप्रणामेन आचरितमङ्गलज्ञापनार्थम् आनन्तार्थकाथशब्दमादौ निबन्ध । तथाच अतः इत्येतच्छब्दात् पञ्चम्यास्तसिल ; तेनातो मनसा कृताभिमतदेवताप्रणाम-. जनितमङ्गलाचरणात् अथानन्तरं दीर्घजीवितीयमध्यायं व्याख्यास्याम इति योजना।
किश्च शास्त्र नासङ्गतं प्रयुञ्जीतेत्यत एतद्वन्यप्रणयने का सङ्गतिरित्याशङ्कायां शिष्यजिशासानन्तरमेतद्दीर्घञ्जीवितीयाध्यायाधनेकग्रन्थस्योत्तरखशापनार्थमादौ
इति। सम्बन्धोऽप्यायुःशास्त्रयोरभिधानाभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन सममस्य शास्त्रस्य हेयोपादेयज्ञानावान्तरल्यापारस्य साध्यसाधनभावलक्षणः । तदेतत् सर्च, दीर्घ जीवितीयमित्यनेन पदेन दीर्घ जीवितीयशब्दमधिकृत्य कृतप्रयोजनाद्यभिधायकं "धातुसाम्यक्रिया चोक्रा" इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम्।
ननु प्रयोजनाभिधानं शास्त्रप्रवृत्तपर्थमिति यदुक्त तन्न युक्त, यतो न प्रयोजनाभिधानमात्रण प्रयोजनवसावधारणम् विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्र'षु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् । अथ मन्यसे-आप्तप्रयोजनाभिधानमेतत् तत् कुतोऽयथार्थत्वम् ? ननु भोः कथमयं प्रयोजनाभिधायी आप्तः ? तदभिहितशास्त्रस्य यथार्थत्वादिति चेत् ; हन्त, न यावच्छास्त्रस्य प्रयोजनवत्त्वावधारणं न तावच्छास्त्रप्रवृत्तिः, न यावच्छास्त्रप्रवृत्तिः न तावच्छास्त्रस्य यथार्थवावधारणम्, न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तु राप्तत्वमवधार्यते, आप्तस्वामवस्तौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते। अथ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् , अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति, कृष्यादावपि हि प्रवृत्तिस्र्थ सन्देहादेव, न हि तत्र कृषीबलानां फललाभावधारणं विद्यते, अन्तरा अवग्रहादेरपि सम्भाव्यमानत्वात्।
नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनात् शास्त्रत्वमेव प्रयोजनबत्तासन्देहापदर्शकमस्तु, तथाप्यल प्रयोजनाभिधानेन। नैवम् । न हि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिन तथा प्रवर्त यति, यथाभिप्रेतप्रयोजनविशेषविषयः सन्देह , अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति, अतो ये तावदनवस्ताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमायारविशेषसन्देोत्पादनार्थ प्रयोजनविशेषाभिधानम्। ये पुनः परमर्षेरग्निवेशस्थायत एवावतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेन व प्रवृत्तिरिति युक्त प्रयोजनाभिधान', प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव . प्रवृत्तिरुपपन्ना, न पुनरनेकसंवत्सरले शबोध्ये शास्त्र'; तदेव यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं तथा चानवस्थेति तन्निरस्तं भवति ।
For Private and Personal Use Only