________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । जल्पकल्पतरुरेष निर्मितः कल्पयत्यभिचिन्तित फलम् ।
जल्पितो हि मुधिया सुधीगणैर्लभ्यमप्यमलं रसोत्तमम् ॥ तत्र प्रथममेव ग्रन्थसन्दर्भभारम्भे तदसमापनकारणविघ्नविनाशनपरमाताचारपरम्परापरिमाप्तमङ्गलाचरणमुचितमिति तदाचरणीयत्वे प्रचुरतरविघ्नशङ्काशङ्कितचेतसा प्रचुरतरविघ्नभनाय प्रचुरतरमङ्गलमेव शिप्यशिशिक्षयिषया प्रत्यध्यायमग्रतोऽथशब्दोपादानेनाचचार। . तत्रादावेवोक्तसङ्गत्या दीर्घजीवितस्य अतिशयप्रयोजनकखात् तन्निदानस्थानत्वेन दीर्घजीवितीयाध्यायस्य प्राधान्याद, व्याख्यारम्भे प्रथमं मङ्गलमाचरति । अथात इत्यादि।-अथशब्दो मङ्गलार्थः। यत्किञ्चित् कम्ोपक्रमे विघ्नोपशमाय मङ्गलमेवाचरणीयमिति प्रसिद्धसिद्धान्ते भगवता जगद्विधात्रा वर्णात्मकशब्द सिमुक्षया प्रेरितेन प्राणवायुना हृदिस्थितेनवोदें, चलता कण्ठस्थितोदानपवनेन मिलता प्रयत्नविशेषेणाहतादेव कण्ठादुत्पाद्यमानस्य तस्य
ओकारस्य चाग्र एवाविर्भावात् । ___ अत इत्येतत् तु अवच्छिन्ने सामीप्यावच्छिन्ने वा बुद्धिरथे शक्तायुव्वेदीयतत्रोपस्थापकादेतच्छब्दादधिकरणे सप्तम्यास्तसिल , तेन अत्र आयुर्वेदीयतन्त्र वान्। तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्रिस्थानात्मकेऽभिधातव्ये निखिलतन्खप्रधानार्थाभिधायकतया श्लोकस्थानमेवाने वक्रव्यममन्यत। वक्ष्यते हि 'इलोकस्थानं समु. द्दिष्टं तन्खस्यास्य शिरःशुभम्। चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः" इति। .
तत्र च सूतस्थानेऽप्युत्पन्नरोगग्रहणे स्वरया रोगोपघातिभेषजाभिधायिचतुष्केऽभिधातम्ये निखिलतन्त्रवीजभूतहेतुलिङ्गौषधाद्यर्थस्य तथा तन्त्रप्रवृत्तपंङ्गप्रयोजनबदायुर्बेदागमादेरभिधायक दीर्घजीवितीयमध्यायमभिधातुमारब्धवान् ।
श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसम्बन्धोपदर्शक श्रोतृबुद्धिसमाधानाय ब्याख्यानप्रतिज्ञापरमष्टपदम् अष्टसंख्याया मङ्गलवेनादौ सूखं निवेशितवान् “अथातो दीर्घ जीवितीयमध्याय व्याख्यायामः" इति । यतो निरभिधेये सप्रयोजने कचटतपादौ साभिधेये वा प्रयोजनशून्ये काकदन्तपरीक्षादौ प्रभावतां प्रवृत्तिर्नोपलभ्यते, तेनादावभिधेयप्रयोजनेऽभिधातव्ये ; यदुक्त "अभिधेयफलज्ञान-विरहस्तिमितोद्यमाः। श्रोतुमल्पमपि ग्रन्थं नाद्रियन्ते हि साधवः"। अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाहार्थञ्चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः सम्बन्धः प्रयोजनशास्त्रयोश्च साध्यसाधनभावलक्षणोऽभिधातव्यः। ...
तत हाभिधेयं हिताहितादिरूपेणायुः, वक्ष्यते हि " हिताहितं सुख दुःखमायुस्तस्य हिताहितम् । मानञ्च तच्च यखोक्रमायुर्वेदः स उच्यते” इति, । अव च सर्वाभिधेयावरोधो यथास्थानमेव व्य परणीयः। प्रयोजन धातुसाम्यम्, यथोक्त “धातुसाम्यक्रिया चोका तन्त्रस्यास्य प्रयोजनम्"
For Private and Personal Use Only