________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । आनन्तार्थाथशब्द निबद्धवान् । तत्र शिष्याणामियं जिशासा-इह खलु लोके लोकानां सकलफलमुख्ये मोक्षे गवेषणीये तत्त्वज्ञानमेव मूलं, तत्र पुनर्मुमुक्षुत्वं, तत्र शमदमादि, तत्र च पारत्रिकै हिकफलभोगविरागः, तत्र सत्यासत्यवस्तुविवेकः, तत्र बुद्धिः, तत्र मनःशुद्धिः, तत्र नित्यक्रिया, तत्र नैमित्तिककर्म गुरुदेवभूदेवाधचनं, तत्र धनं, तत्र जीवितं, तत्रारोग्यं हेतुः। तच्चारोग्यं दीर्घायुश्च कथं भवतीति जिज्ञासानन्तरं स्वस्थातुरपरायणायुवेंदै तदारोग्यदीर्घजीवितोपायविधिजिशासोद्देश्यस्य तदारोग्यदीर्घजीवितोपायविधिज्ञानस्य विषयतया आरोग्यदीर्घजीवितोपायविधिरूपसङ्गतिमतोऽत्राभिधातव्यसमिति बोध्यम् । अतोऽथेत्यकरणात् पञ्चम्याः सप्तम्याश्च तसिल व्याख्याद्वयेन बोध्यः । तथा चातः शिष्यप्रश्नादथानन्तरमित्येकवारमन्वितमत इति पदमायत्तता सप्तम्यन्तत्वेनोपलभ्यमानं पुन
अथेत्यादि सूत्र अथशब्दो ब्रह्मादिप्रणीततन्त्र स्वल्पायुर्मेधसामर्थानवधारणस्य तथाभीष्टदेवतानमस्कारशास्त्रकरणार्थगुज्ञिालाभयोरानन्तयें प्रयुक्रोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवति दकाहरणप्रवृत्तोदकुम्भदर्शनमिव प्रस्थितानाम् ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकतु श्रोतणामविघ्न नेष्टलाभो भवतीति युक्त मङ्गलोपादानम्। अथशब्दस्य मङ्गलत्वे स्मृतिः “ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। यामित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ" ॥ शास्त्रान्तरे चादौ मगलत्वेन दृष्टोऽयमथशब्दः, यथा “अथ शब्दानुशासनम्,” “अथातो धम्म व्याख्यास्यामः" इत्यादौ। अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्ट नाग्निवेशेन कृत एव, अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्यात् व्याख्यानान्तरायभयात्, तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् । यथा च गुज्ञिालाभानन्तरमेतत् तन्वकरणं तथा “अथ मैवीपरः पुष्यम्" इत्यादी स्फुटमेव । ग्रन्थकरणे च गुर्वानुमतिप्रतिपादनेन प्रन्थस्योपादेयता प्रदर्शिता भवति। यत् पुनः शिष्यप्रश्नानन्तर्यात्वमथशब्दस्य वण्यते तन्न मां धिनीति, न हि शिष्यान् पुरो व्यवस्थाप्य शास्त्र क्रियते। श्रोतृबुद्धिस्वीकारे तु शास्त्रकरणं युक्रम्, न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति ।
__ अतःशब्दोऽधिकारप्रागवध्युपदर्शकः, अत ऊद्रं यदुपदेक्ष्यामो दीर्घ जीवितीयं तदिति ; यदि वा हेती, येन, ब्रह्मादिप्रणीतायुवेंदतन्त्राणामुक्रन नायेनोत्सम्बन्धत्वमिव , अतो हेतोदर्घजीवितीयं व्याख्यास्याम इति योजनीयम्।।
दीर्घ जीवितीयमित्यव दीर्घ जीवितशब्दोऽस्मिन्नस्तीति मत्वर्थे “अध्यायानुवाकयोलुक च" इति शप्रत्ययः, यदि वा.दीर्घ जीवितमधिकृत्य कृतो ग्रन्थोऽध्यायरूपस्तन्त्ररूपो वा इत्यस्यां विवक्षायामधिकृत्य कृतो ग्रन्थ इत्यधिकारात् “शिशुक्रन्दयमसभ" इत्यादिना छः। एवमन्यत्राप्येवजातीये मन्तव्यम् । अब सत्यपि शब्दान्तरे दीर्घ जीवितशब्देन व संज्ञा कृता, दीर्घ जीवित
+ उरसन्नत्वमिवेति पाठान्तरम् ।
For Private and Personal Use Only