________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ दीर्घजीवितीयः दीर्घञ्जीवितीयादाक्वेतव्यम् । तेनातः शिष्यप्रश्नादथानन्तरमतोऽस्मिन् वक्तव्ये स्वस्थातुरपरायणायुन्चदे दीर्घजीवितीयाद्यध्याय व्याख्यास्याम इत्यर्थः । अथात्रोत्तरवचनप्रयोजकमश्नोद्दे श्यज्ञानविषयो हि सङ्गतिः षोढा, यथोक्ता च'उपोद्धातः प्रसङ्गश्च हेतुतावसरस्तथा। निर्वाहकैककार्यत्वे पोढा सङ्गतिरुच्यते॥” तत्र प्रकृतोपपादकत्वमुपोद्घातकसम्, स्मृतस्योपेक्षानहब प्रसङ्गलम्, हतुता तस्य फलरूपार्थस्य कारणवम्, अवसरखं पूर्वोक्तस्य सामान्यस्य प्रभेदस्य चाशेषविशेषेण निरूपणादाकालाविरहः, अङ्गप्रत्यङ्गाभ्यां प्रकृतस्य निष्पादकत्वं निर्वाहकसम्, तत्कार्य हेतुखमेककार्यसमिति; आसु षटन सङ्गतिषु मध्येष्वत्रोपोद्घात एव सङ्गतिः। स्वस्थातुरपरायणविधिबोधकवाक्यलक्षणोत्तरदर्शनात् पदार्थाख्यतत्रयुक्तौ वा आरोग्यदीर्घायुर्जननोपायविधेरेव जिशासायां
शब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च। दीर्घ जीवितशब्दोऽस्मिन्नस्तीति दीर्घ जीवित. शब्दमधिकृत्य कृतो वेत्यनया व्युत्पत्तया दीर्घ जीवितीयशब्दस्तन्तऽध्याये च प्रवर्तनीयः । तेन दीघजीवितीयं व्याख्यास्याम इत्यनेन तन्वं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति, पुनर्दीर्घजीवि. तीयमिति पदमावत्र्याध्यायपदसमभिव्याहृतमध्यायच्याख्यानप्रतिज्ञां लम्भयति ; दृष्टज्ञावृत्य पदस्य योजनम्, यथा अपामार्ग तण्डुलीये. “गौरवे शिरसः शूले पीनसे" इत्यादौ "शिरसः" इति पदं गौरवे" इत्यनेन युज्यते. आवृत्य 'शूले" इत्यनेन। अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञा अध्यायप्रतिज्ञा उनकायमाना इति तन्निरस्तं भवति ; यदि वा अध्यायप्रति वास्तु, तयैव तन्त्रप्रतिज्ञाप्यर्थलब्धैव, न ह्यध्यायस्तन्त्रव्यतिरिक्तस्तेनावयवव्याख्याने तन्तस्याप्यवयविनो व्याख्या भवत्येव, यथा अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति। अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते, तान्तु प्रत्यध्यायमेव करिष्यति ।
अध्यायमिति-अधिपूर्वादिङः “इडश्च" इति फर्मणि घसा साध्यम्, तेन अधीयते असौ इत्यध्यायः, न चानया व्युत्पत्या प्रकरणं चतुष्कस्थानादिध्वतिप्रसङ्गः, यतो योगरूदयं संज्ञा, अध्यायस्य प्रकरणसमूहविशेष एव दीर्घजीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते, न योगमात्रण वर्तते, वक्ष्यति हि “अधिकृत्येयमध्यायनामरज्ञा प्रतिष्ठिता" नामसंज्ञा योगरूइसंज्ञेत्यर्थः, यदि वा फरणाधिकरणयोरर्थयोः “अध्यायन्यायस्वावसंहारधारावायाश्च" इतिसूक्षण निपातनादध्यायपदसिद्धिः, अधीयतेऽस्मिन्ननेन वा अर्थविशेष इत्यध्यायः, अतिप्रसत्रिनिषेधरतूफ्रन्यायः ।
व्याख्यास्याम इति–च्याङपूर्वात् ख्यातेलटा सोध्यं, चक्षिको हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुनिवारत्वेन “स्वरितजित" इत्यादिनात्मनेपदं स्यादिति। वीति विशेषे, विशेषाश्च व्याससमासादयः। आङोऽयं क्रियायोगे ; ये तु मादायामभिविधौ वा आड प्रयोग मन्यन्ते, तेषामभिप्रायं न विद्मः ; यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात्, यथा “आसमुद्रक्षितीश," "आपाटलीपुलाद् वृष्टो देवः" इत्यादौ, इहापि च तथा, क्रियायोगविरह
For Private and Personal Use Only