________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । प्रकृतस्य तदारोग्यदीर्घायुविधिज्ञानस्य विषयारोग्यदीर्घायुविधेरुपपादकखात् । अथवा अत्राथशब्दोऽधिकारार्थः, तेनात ऊर्द्ध मधिकार इत्यर्थः। कः पुनरधिकार इत्यत आह-दीर्घजीवितीयमिति। दीर्घञ्जीवितमधिकृत्य कृतं ग्रन्थमत ऊर्द्धमधिकृत्य व्याख्यास्यामः । एवं सर्वत्राध्याये व्याख्येयम् ।
तत्रादौ खवाक्यस्य स्वयं वक्तुभनुचितखात् अपरमहर्षिवाक्यप्रतिसंस्कारकलमात्मनः ख्यापयितुममिवेषातन्त्रे विवरीतव्ये प्रथमतस्तत्सङ्गतिमत्त्व नायुवेंदप्रकाशाद्याश्रयत्वेन दीर्घजीवितीयाध्यायस्य प्राधान्यात् तदुपन्यस्यति दीर्घजीवितीयमध्यायं व्याख्यास्याम इति । व्याख्यास्याम इत्यनेन दीर्घञ्जीवितीयाध्यायस्य स्वसो तितस्य ब्रह्मणा प्रोक्तायुर्वेदवाक्यानुसारीयवं व्यञ्जितम् । “एकादशेऽहनि पिता नाम कुर्य्यात्” इतिवत् शास्त्रकारिणोऽपि स्वग्रन्थे "उपसगा. क्रियायोग" इति नियमात् आङ उपसर्गत्वं न स्यात्, ततश्चानुपसर्गेणाङा व्यवधानात् वेरुपसर्गता न स्यात् , येनाव्यवहितः स्वजातीयव्यवहितो वा धातोरुपसर्गो भवति ; व्याङोरपि डभयोरनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिकल्पनागौरवप्रसङ्गात् । तस्मात् क्रियायोगित्वमेवाङो न्याय्यम्। अथ, अत', दीर्घ, जीवितीय, अध्याय, वि, आ, ख्यास्याम इत्यरपदत्वम्।
ननु खलु कथमग्निवेशः सकलपदार्थाशेषज्ञानव्याख्येयमायुवेदं व्याख्यास्यति ? यतो न तावदभेषजादीनामशेषविशेषः प्रत्यक्षज्ञेय', सर्वपदार्थानां प्रत्यक्षाविषयत्वात् । अन्वयव्यतिरेकाभ्यान्तु सर्वपदार्थावधारण दुष्करमेव ; यत एकमेव मधु स्वरूपेण जीवयति, मारयति चोष्णं समघृतञ्च, कफप्रकृत हितमहितं वातप्रकृतेः, आनूपे सात्म्यमसात्मंघ मरौ; शीते सेव्यमसेव्यं ग्रीष्मे, हितमवृद्ध वृद्ध चाहितं, अल्पं गुणकरम् आबाधकरमत्युपयुक्तं, आमताङ्गतमुदरे उपक्रमविरधित्वादतिविभ्रमकरम् : काठमाचीयुक्रञ्च माषकं पक्कं निकुचेन सहोपयुक्र मरणाय अथवा बलवर्णवीर्यतेजउपघाताय भवतीत्येवमादि तत्तदयुक्र तत्तच्छतशः करोति ; अत एव एकस्यैव मधुनो रूपं यदानेन प्रकारेण दुरधिगम, तदाल कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य, अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोराप्तात् प्रतिपन्न प्रतिपादयिय्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षु गुरूत्तानुवादरूपता स्वग्रन्थस्य दर्शयन्नाह-इति ह स्माह भगवानात्रय इति ।
अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्षकः हशब्दोऽवधारणे; यथा “न ह वै शरीरस्य प्रियाप्रिययोरपहतिरस्ति" इति अत्र न ह इति नैवेत्यर्थः । अत्र “स्माह" इतिशब्दप्रयोगेण भूतमात्र एव लिडर्थे "लट् स्म” इति लट , न भूतानद्यतने परोक्ष, आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात्, यथा च भूतमात्र लिड़ भवति तथा च दयिष्यामः । भगं पूजितं ज्ञानं, तद्वान्, यथोकम् “उत्पत्तिं प्रलयञ्चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति"
For Private and Personal Use Only