________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दीर्घजीवितीयः व्यवहारार्थ स्वाभिमतसंशां कुर्युः, इत्यतः सर्वेषामेवाध्यायानामादौ यद्वाक्यं वाक्यार्थी वा वर्तते, तद्वाक्यवाक्यार्थान्यतरैकदेशेन स्वरूपपरत्वेन प्रातिपदिकसशायां तदधिकृत्य कृते ग्रन्थे इत्यर्थे तद्धितविधानेन शाब्दबोधे ग्रन्थेऽत्राध्यायस्य संशां चकार। तथा हि अध्यायादौ दीर्घजीवितमन्विछन्नित्यादि-वाक्यस्यैकदेशदीर्घजीवितेति-शब्दात् स्वरूपपरतया प्रातिपदिकसंज्ञकसान दीर्घजीवितमधिकृत्य कृत इत्यर्थे छतद्धितान्तमध्यायविशेषण दीर्घजीवितीयमिति । __ अध्यायमिति-अधीयते सङ्गतार्थबोधको यो ग्रन्थः सोऽध्यायस्तं तथा। व्याख्यास्याम इति-स्फुटार्थी करणपूर्वकविस्तृतार्थी करणानुकूलवाक्योत्पादनाव्यापारो व्याख्यानं, तकलशालिखादध्यायस्य कर्मत्वं, बहुवचनम् . “एकस्मिन् अस्मदि च” इत्यनेन । ननु एतेनाप्यध्यायस्य स्ववाक्यवसंशयः यदि वा भगशब्द समस्तैश्वय्यमाहात्म्यादिवचन', यथोक "एश्वर्यस्य समस्तस्य धर्मस्य यशस: श्रियः । ज्ञानवैराग्ययोश्च व * षण्णां भा इतीङ्गना" ॥ अवरपत्यमा यः, अनेन विशुद्धवंशत्वं दर्शितं भवति ।
___ अवान्ये वर्गयन्ति चतुर्विधं सूत्रं भवति --गुरुसूत्र, शिष्यसूत्र, प्रतिसंस्कर्तृ सूत्र, . एकीयसूत्रम् , तत्र गुरुसूत्र, यथा--"नैतद् बुद्धिमता द्रष्टव्यमग्निवेश" इत्यादि, प्रतिसंस्कत्तं सूत्र' यथा-“तमुवाच भगवानात यः” इत्यादि, शिष्यसूत्र यथा-"नैतानि भगवन् पञ्चकंपायशतानि पूर्य्यन्ते' इत्यादि, एकीयसूत्र यथा--- "कुमारस्य शिरः पूर्वमभिनिनिव्वतते इति कुमारशिरा भरद्वाजः” इत्यादि। तेनायं व्याख्यानप्रतिज्ञासूत्र गुरोरेव, शिव्यस्याग्निवेशस्य व्याख्यानेऽनधिकारत्वात्, द्वितीयसूत्र प्रतिसंस्कर्तुः, इतिशब्देन च प्रकारवाचिना “दीर्घञ्जीवितीयं व्याख्यास्यामः" इति परामृप्यते । तेनाह स्मेति, भूतानद्यतनपरोक्ष एव भवति प्रतिसंस्कार प्रत्यायोपदेशस्य परोक्षत्वात् । अनेन न्यायेन च “तमुवाच भगवाना यः” इत्यादावपि लिडविधिरुपपन्नो भवति । सुश्रुते च "यथोवाच भगवान् धन्वन्तरि.” इति प्रतिसंस्कर्त सूवमिति कृत्वा टीकाकृता लि विधिरुपपादितः। अत्र ब्रूमः, यत्तावक शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्र, तन्न, न हि जात्या गुरुत्वमस्ति, यत: स एवान यः स्वगुरुमपेक्ष्य शिष्यः, अग्निवेशादीनपेक्ष्य गुरुः, एवमग्निवेशोऽपि ग्रन्थकरणकाले स्वबुद्धिस्थिरीकृतान् शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः । यत् पुनद्वितीयसूत्रस्य प्रतिसंस्कत्तं सूत्रतया भूतानद्यतनपरोक्षे लिडू विधिरुपपद्यते, तत्र विचार्य, किमिदं द्वितीयं सूत्र पूर्ववाक्यैकतापन्न, न वा, यद्यकवाक्यतापम, तदा सुश्रुते-तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयं, तथा घ व्याख्यास्याम-इतिक्रियैकवाक्यतापन्नम् उचाचेति पदं न भिरकत कं भवितुमर्हति, तथा च कुतो लिडिधिः ? अथ नैकतापन्न तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसङ्गतिः। किञ्च यत्तु
* कामस्याथ प्रयत्नस्य इति पाठान्तरम्।
For Private and Personal Use Only