Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[
ग
]
सिद्धिप्रवणो हि लोको वस्तुमत्त्वानपेक्ष एव । 'शब्दज्ञानानुपाती वस्तुशुन्यो विकल्प इति पातञ्जलसूत्रानुसारं विकल्पवृत्त्यैव व्यवहरतां जनानामसत्यप्यर्थे प्रतिपत्तिदर्शनात् । अत एव शृङ्गारादिरसानामरूपत्वे प्रमाणतः सिद्धेऽपि हास्यशृङ्गारकीर्त्यादीनां शुक्लत्वं, प्रेमानुरागवीरादीनां रक्तत्वं, क्रोधपापापकीर्त्यादीनां कृष्णत्वमनृतमपि व्यवहारतः कवयः प्रयुञ्जते । वेदादिप्रमाणैः सूर्यस्य स्थिरत्वे सिद्धेऽपि लौकिकाश्चलत्वं व्यवहरन्ति, पृथिव्याश्चलत्वे प्रमाणप्रतीतेऽपि तामचलामाहुः।
एवं घटशब्दप्रयोजकाकारान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात् तदभिन्नतयैवैकत्वेन प्रतिपन्नस्य, मृत्तिकाविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छिन्नत्वेन घटशब्दसङ्केतसिद्धया तत्तद्वयवहारोपपत्तौ सत्यामपि, समवायसम्बन्धेनावयवेषूत्पन्नः कश्चिदपूर्वोऽवयवी घटशब्दवाच्य इति मन्यन्ते ।
किमधिकेन लोके हि सर्वत्रवार्थे त्रिविधा प्रतिपत्तिदृश्यते-पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति । पारमार्थिकी, वास्तविकीत्यनर्थान्तरम् । व्यावहारिकी, औपयोगिकी, औपचारिकीत्यनान्तरम् । प्रातिभासिकी, आध्यासिकी वैकल्पिकीत्यनान्तरम् । यथा काचे स्फटिकबुद्धि: प्रातिभासिकी, काचद्धिावहारिकी, मृद्बुद्धि : पारमाथिकी । एवं पृथिव्यपेक्षया सूर्यस्य स्थिरता वास्तविकी, पृथ्वी परितः सूर्यस्य वार्षिकगतिः पूर्वाभिमुखीना व्यावहारिकी, पृथिवीं परितः सूर्यस्य दैनिकी गतिः पश्चिमाभिमुखी प्रातिभासिकी। इत्येवं सर्वत्र प्रतीतेस्त्रविध्यं परीक्षकाणां प्रत्यक्षम् । तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्तविक्याः सत्यत्वमेव, व्यावहारिक्याः सत्यानृतत्वम् । अत एवाहुः शारीरकभाष्ये शङ्कराचार्याः 'सत्यानृते मिथुनीकृत्य लोकव्यवहारः' इति । अन्यथासतोऽपि व्यवहारानुरोधेनान्यथाप्रकल्पितरूपस्य लोके व्यवहार दर्शनात् । तस्मान्नतादृशलौकिकप्रतिपत्त्यभावमनुरुध्य प्रमाणसिद्धः कश्चिदर्थः प्रत्याख्यातुं शक्यते इति ।
. अथ द्वितीयः पक्षः-स्वरूपतोऽसत्त्वमप्रसिद्धिरिति; तदपि न । छादकत्वस्यव छन्दःपदशक्यतावच्छेदकतया तत्र तदसत्त्वानवक्लृप्तेः । नन्वेवं शास्त्रव्युत्पत्त्यो

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 460