SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [ ग ] सिद्धिप्रवणो हि लोको वस्तुमत्त्वानपेक्ष एव । 'शब्दज्ञानानुपाती वस्तुशुन्यो विकल्प इति पातञ्जलसूत्रानुसारं विकल्पवृत्त्यैव व्यवहरतां जनानामसत्यप्यर्थे प्रतिपत्तिदर्शनात् । अत एव शृङ्गारादिरसानामरूपत्वे प्रमाणतः सिद्धेऽपि हास्यशृङ्गारकीर्त्यादीनां शुक्लत्वं, प्रेमानुरागवीरादीनां रक्तत्वं, क्रोधपापापकीर्त्यादीनां कृष्णत्वमनृतमपि व्यवहारतः कवयः प्रयुञ्जते । वेदादिप्रमाणैः सूर्यस्य स्थिरत्वे सिद्धेऽपि लौकिकाश्चलत्वं व्यवहरन्ति, पृथिव्याश्चलत्वे प्रमाणप्रतीतेऽपि तामचलामाहुः। एवं घटशब्दप्रयोजकाकारान्तःकरणवृत्त्यवच्छिन्नचैतन्यस्यैकत्वात् तदभिन्नतयैवैकत्वेन प्रतिपन्नस्य, मृत्तिकाविलक्षणसंनिवेशात्मकघटरूपावच्छिन्नचैतन्यस्य घटत्वतया तदवच्छिन्नत्वेन घटशब्दसङ्केतसिद्धया तत्तद्वयवहारोपपत्तौ सत्यामपि, समवायसम्बन्धेनावयवेषूत्पन्नः कश्चिदपूर्वोऽवयवी घटशब्दवाच्य इति मन्यन्ते । किमधिकेन लोके हि सर्वत्रवार्थे त्रिविधा प्रतिपत्तिदृश्यते-पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति । पारमार्थिकी, वास्तविकीत्यनर्थान्तरम् । व्यावहारिकी, औपयोगिकी, औपचारिकीत्यनान्तरम् । प्रातिभासिकी, आध्यासिकी वैकल्पिकीत्यनान्तरम् । यथा काचे स्फटिकबुद्धि: प्रातिभासिकी, काचद्धिावहारिकी, मृद्बुद्धि : पारमाथिकी । एवं पृथिव्यपेक्षया सूर्यस्य स्थिरता वास्तविकी, पृथ्वी परितः सूर्यस्य वार्षिकगतिः पूर्वाभिमुखीना व्यावहारिकी, पृथिवीं परितः सूर्यस्य दैनिकी गतिः पश्चिमाभिमुखी प्रातिभासिकी। इत्येवं सर्वत्र प्रतीतेस्त्रविध्यं परीक्षकाणां प्रत्यक्षम् । तत्र प्रातिभासिक्या मिथ्यात्वमेव, वास्तविक्याः सत्यत्वमेव, व्यावहारिक्याः सत्यानृतत्वम् । अत एवाहुः शारीरकभाष्ये शङ्कराचार्याः 'सत्यानृते मिथुनीकृत्य लोकव्यवहारः' इति । अन्यथासतोऽपि व्यवहारानुरोधेनान्यथाप्रकल्पितरूपस्य लोके व्यवहार दर्शनात् । तस्मान्नतादृशलौकिकप्रतिपत्त्यभावमनुरुध्य प्रमाणसिद्धः कश्चिदर्थः प्रत्याख्यातुं शक्यते इति । . अथ द्वितीयः पक्षः-स्वरूपतोऽसत्त्वमप्रसिद्धिरिति; तदपि न । छादकत्वस्यव छन्दःपदशक्यतावच्छेदकतया तत्र तदसत्त्वानवक्लृप्तेः । नन्वेवं शास्त्रव्युत्पत्त्यो
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy