SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ [ ख 1 किञ्च छन्दमामपरिज्ञानात् प्रत्युत प्रत्यवायः श्रूयते । यथा "यो ह वा अविदितार्षेयच्छन्दोदैवत ब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स स्थाणुं वर्छति गर्तं वा पतति प्रमीयते वा, पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति ।" इति (शतपथब्राह्मण - ऋषिछन्दोदैवतम् ) ब्राह्मणज्ञानपूर्वकमेव मन्त्रो व्यवहारयोग्योऽन्यथा तत्प्रयोगेण स्थावरयोनौ पतनम्, श्रधःपतनम्, मृत्युर्वा लभ्यते पाप भाक्त्वं चेति तदाशयः । एवं च यथा वेदमन्त्राणां छन्दोज्ञानपूर्वकमेव व्यवहारे साफल्यं तथा लौकिककाव्यस्यापि छन्दोज्ञानपूर्वक एव व्यवहारः समुचित इति तद्विज्ञानार्थं छन्दः शास्त्रप्रवर्तन सप्रयोजनम् । छन्दः शब्दनिर्वचनम् तत्र किमिदं छन्द इति जिज्ञासा समुदेति । छन्द: शब्दस्य बहुष्वर्थेषु प्रयोगो दृश्यते; 'अभिप्रायश्छन्द श्राशयः' इति कोशानुसारमभिप्राये; वेदे, वर्णमात्रानियताक्षरव्यूहेषु च । तत्र सर्वत्रानुगत किमप्येकं छन्दोलक्षणमन्वेषणीयम् इति केषाञ्चिदाग्रहः । अत्रापरे इत्थमाहुः प्राणमात्रा छन्द इति सर्वं वस्तु केनापि प्राणिति, तत्र यद्येन प्राणिति तद्वस्तुनो मात्रा छन्द इति । मात्रा च पुनरवच्छेदः । सच मानेन वा प्रतिष्ठया वा तुलितकेन वा क्रियमाणो वस्तुस्वरूपमर्यादाबन्धः । यद्यपि वेदेषु प्रयुक्तस्य छन्दः शब्दस्य निर्वचनं बहुधा छादयतेर्धातोराश्रयणेन दृश्यते, तथाहि - " स च्छन्दोभिरछन्नस्तस्मात् छन्दांसीत्याचक्षते । ते छन्दोभिरात्मानमाच्छादयन् तच्छन्दसां छन्दस्त्वम्; ते छन्दोभिरात्मानं छादयित्वोपायन्, तच्छन्दसां छन्दस्त्वम्" "छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः" इत्यादि । एवं च प्राच्छादकत्वमेव छन्द:शब्दप्रवृत्तिनिमित्तं न त्ववच्छेद इति लभ्यते । आच्छादकानामवच्छेदकत्वसम्भवेऽपि, अवच्छेदकानामाच्छादकत्वासम्भवात् । अत एव तु लोकेऽपि मानस्य प्रतिष्ठा - यातुलितकस्य मा छादकत्वाप्रसिद्धिरिति केचित् तन्न; अप्रसिद्धेर्निरूपयितुमशक्यत्वात् । तथा हि केयमप्रसिद्धि: ? लौकिकानामप्रतिपत्तिर्वा स्वरूपतोऽसत्त्वं वा । नाद्यः, न हि लौकिकानामप्रतिपत्त्या प्रमाणसिद्धोऽर्थः प्रत्याख्यातु ं युक्तः । प्रतिपत्ति लोके दृष्ट्वा प्रमाणान्तरैरसिद्धोऽप्यर्थ: स्वीकर्तुमपि न शक्यः । व्यवहार
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy