________________
9 ॐ ह्रीं अहं नमः॥ HRELIMSHIRSANEEYEESHAANEMA
किञ्चित्प्रास्ताविकम् ।। HeATIENHEATERIAL
अये कविकुमुदकलितकविताकौमुदीचुम्बनचातकाः संस्कृत-प्राकृतवाङ्
महोदधिस्नातकाः !
छन्दःशास्त्रस्य प्रयोजनम् "नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥"
-अग्निपुराणम् इति सुभाषितानुसारं कविता, तद्रसानुभवः, तद्विरचनाशक्तिश्च प्रमुखता भजते मानवीयगुण-समुदाये इति सर्वेषां वो विदितमेव । कवित्वलाभाय काव्यरसास्वादाय च छन्दोज्ञानमतितरामावश्यकम् । अज्ञातछन्दोभेदश्च जनः पद्यकाव्यं सम्यक्पठितुमपि न पारयति, कुतस्तस्य पद्यनिर्माणशक्तेः सम्भावना । यद्यपि "छन्दोविचितेवृत्तसंशयच्छेदः" इति पूर्वाचार्यवाक्यमुदाहरता ग्रन्थकृता वृत्तसंशयनिराकरणमेव छन्दोविचितेः-छन्दःसंग्रहशास्त्रस्य प्रयोजनत्वेनोक्तं मङ्गलश्लोकवृत्ती। तथापि "काव्योपयोग: वृत्तसंशयच्छेदादिना" इति कथयता काव्यनिर्माणोपयोगोऽप्यादिशब्देन संगृहीत एव। वैदिकास्तु वेदस्य षडङ्गमध्ये छन्दोऽपि पठन्ति । तथा चोक्तम्
"शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः । छन्दोविचितिषष्ठश्च षडङ्गो वेद उच्यते ॥” इति ।