________________
[घ]
पूर्वं प्रदर्शितेन छन्दशब्दनिर्वचनचयेन चाच्छादकत्वं छन्दःपदशक्यतावच्छेदकमस्तु तावता मानाद्यवच्छेदानां वर्णमात्राद्यवच्छेदानां चाच्छादकत्वं न प्रतीतिपथमवतरतीति चेन्न, छादकत्वस्यैव छन्दः पदप्रवृत्तिनिमित्तत्वमभ्युपगन्तॄणां छन्दः पदाभिधेयेषु तेष्ववच्छेदेषु छादकत्वस्यास्तित्वबोधन एव तात्पर्यावसायात् । ननु तर्हि कीदृगाच्छादकत्वमेषामिष्टमिति चेत्, इतरेतराच्छादकत्वमिति गृहाण । ननु च भोः येन तद्वस्तुस्वरूपं न प्रतिपद्यते तिरोहितं भवति तस्मिन्नन्तर्धानसाधने संवरणे आच्छादनशब्दो दृष्टः, यथा घटाच्छादितः प्रदीपः, पटाच्छादितो घटः, रजसाच्छादितो भानु:, स्तनयुगपरिणाहाच्छादिना वल्कलेन इत्यादौ । प्रकृते पुननैतदेवं दृश्यते, न चावच्छेदेन तदवच्छिन्नं वस्तु किञ्चिदन्तर्धत्ते तस्मादनाच्छादका एवावच्छेदका इति प्रतिपद्यन्ते इति चेत्, सत्यम्, न केवलमन्तर्धानमेवाच्छादनशब्दस्य विषयः । किं तर्हि ? बहवो विषयास्तच्छब्दस्योपलभ्यन्ते तथा हि; 'अन्नाच्छादनभागयम्', 'आच्छाद्य चार्हयित्वा च श्रुतिशीलवते स्वयम्' ( कन्यां दद्यादिति शेषः ) इत्यादी उपसंव्यानमाच्छादनम् । 'आभूषणाच्छादिताङ्गी' 'छदयति सुरलोकं यो गुणैर्यं च युद्धे । सुरयुवतिविमुक्ताश्छादयन्ति सजश्च । इत्यादिषु पर्याधानं छादनम् । 'चन्दनच्छन्नगात्रः' 'तैलाच्छन्नं कलेवरम्' घृताच्छन्नं व्यञ्जनम्' इत्यादिषु चचितकं छादनम् । 'मेघाच्छन्नेऽह्नि दुर्दिनम् 'कटकच्छन्नमार्गेषु' इत्यादिष्ववरोध प्राच्छादनम् । छादयन्नाननं वेगैरर्दयन्नङ्गमञ्जनैः । निरुच्यते छदिरिति दोषो वक्त्रं प्रधावित: || ” ( - सुश्रुतः) इत्येव - मादिषु दूषणमाच्छादनम् इत्येवमनेके विषयाश्छादनस्य भवन्ति । न चैतेषु छाद्यस्यान्तर्धानं दृश्यते, प्रयुज्यते च स श्राच्छादनशब्दः । तदित्थं तस्यानका सिद्धे यदिदं गोपनापरपर्यायं रक्षाभिप्रायमाच्छादनं तदिहावच्छेदकानुगतं द्रष्टव्यम् । अवच्छेदकावच्छिन्नस्य स्वरूपतोऽप्रच्यवनेन गोपनं भवति ।
अत्र कश्चित् प्रत्यवतिष्ठते — नेदमनैकाथ्यं युक्तम्, प्रकरणवशप्राप्तार्थेषु शक्तिस्वीकारे शक्यतावच्छेदकानन्त्यापातात् । वस्तुतस्तु अपवारणे छादयतिः पठितो धातुपाठेषु । अपवारणं च द्विविधम् । एकदिग्वृत्तित्वे आवरणम्, अनेकदिग्वृत्तित्वे च संवरणम् । इदं च संवरणं वस्तुतः स्वरूपानुगतमपि द्वेधापृथग्दृष्टमपृथग्दृष्टं च । तथा हि 'मेघच्छन्नम्' इत्यादावावरकत्वेन, उपसंवीत