________________
घटादीनां बहिरवस्थानां व्याप्यवत्तिनां दिग्देशकालपरिमाणादीनां च संवरकत्वेन प्रतिपत्तिः । अनेकदिवत्तिनोऽप्येकदिवत्तित्वाव्याघातात् संवरणेऽप्यावरणशब्दः प्रयोगार्ह इत्यन्यदेतत् । उभयोरेवानयोरर्थयोः दृष्टिसम्बन्धप्रतिबन्धकत्वमेवाच्छादनशब्दप्रवृत्तिनिमित्तम् । प्रतिबन्धकतावच्छेदकं च दृग्दृश्यान्तरालवत्तित्वं व्यवधानापरपर्यायम्। 'मेघच्छन्नेऽह्नि दुर्दिनम्' इत्यत्र अहःशब्दस्य तत्प्रवर्तकसूर्यपरतया तदंशुपरतया वा विवक्षणात् तददर्शन मेघरूपावरणप्रयोज्यम् । तथा च छन्नाच्छादितादिशब्दानां प्रतिबद्धदर्शनार्थकत्वात्, अवच्छेदावच्छिन्नानां चानवरुद्धदर्शनत्वेनाभिप्रेतत्वात्, नावच्छेदानामाश्छादकत्वम्; अनाच्छादकत्वाच नावच्छेदश्छन्दः इति चेत्; अत्रोच्यते-नैकान्ततस्तावद् हगवगेधकस्यैवाच्छादकत्वं वक्तुं शक्यम्, एकान्ते स्थितवतां पुसां 'छन्ने स्थाने तिष्ठामः' इति प्रतिपत्तिदर्शनात् । न च वर्षातपात् कृच्छ छत्राच्छादिवर्मणः' इत्यादौ च सर्वावयवैर्दय॑मानस्यापि पुस:छत्रच्छन्नत्वोपचारात् । एवं दृष्टिप्रतिबन्धनरपेक्ष्येऽपि अवरोधकेषु आच्छादकत्वोपचारश्चन्द्रातपादौ व्यवहृतः । तथा चेतरसम्बन्धापवारकत्वमेवाच्छादकत्वमिति निष्कर्षः । इतरत्वं तु कचिद् दृष्टेः, क्वचित्तु प्रतिविघातकानामर्थानाम् । तत्र दृष्टिसम्बन्धापवारणे छन्नस्य गुप्तत्वं गूढत्वापरपर्यायम्। प्रतिविघातकदोषसम्बन्धापवारणे छन्नत्वं, गुप्तत्वं, रक्षितत्वापर. पर्यायम् । तथा चावच्छेदानामपि, अवच्छित्रस्वरूपानुगतया यावदवयवप्रच्यावकदोषसम्बन्धापवारकतया सिद्धमेव स्वरूपाच्छादकत्वं छन्दःशब्दप्रवृत्ती निमित्तमिति । इत्थं च मात्रावर्गनियताक्षरव्यूहरूपस्यापि तच्छन्दोव्यक्तिस्वरूपाच्छादकत्वेन छन्दस्त्वं सिद्धम् । अभिप्रायेऽपि मनसः स्वरूपाच्छादकत्वरूपं छन्दस्त्वम् । वेदानां च छन्दः परिच्छिन्नस्वरूपतया छन्दस्त्वं रूढिप्राप्तमिति सर्वेषां छन्दःशब्दप्रतिपाद्यानामर्थानां सङ्ग्रहोऽवमेयः । स्वमते तु पद्यच्छन्दसः चन्दनादाह्लादनाच्छन्दस्त्वमुक्तमाचार्यैरिति दिक् ।
. .. छन्दो-भेदाः । तदिदं छन्दो बहुधा विभक्तं दृश्यते छन्दःशास्त्राभिः । तदित्यम् .. (१) छन्दःशब्दप्रवृत्तिविषयः पद्यजातं द्विधा-पद्यं जातिश्च । यत्र नियत
वर्णव्यवस्थया छन्दःसिद्धिस्तद्वत्तम् । यत्र तु नियतमात्राव्यवस्थया