________________
छन्दःसिद्धिः सा जातिः । तथा चाह पिङ्गलच्छन्दःशास्त्रटीकायां हलायुधः____ "पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा। ..
एकदेशस्थिता जातिवृत्तं लघुगुरु स्थितम् ॥” इति । (२) परे तु वृत्तिर्जातिरिति द्विधा विभज्य तयोरुभयोरपि वृत्तशब्देन छन्द:
शब्देन च व्यवहारमिच्छन्ति । वर्णवृत्तं वर्णच्छन्दः, मात्रावृत्तं मात्राच्छन्द
इति तथा चैषां मते छन्दो-वृत्तशब्दयोः पर्यायवाचित्वम् । (३) छन्दःपरिमलकारास्तु वृत्तच्छन्द: शब्दयोः पर्यायत्वं प्रत्याचक्षते । मात्रा- क्षरसंख्यया नियता वाक् छन्दः, गलसमवेतत्वरूपेण नियता वाग वृत्तमित्येवं
व्यवस्थापयन्ति । (४) अन्ये पुनरन्यथा विभज्य व्याचक्षते तथा हि-पद्यच्छन्दस्तावत् त्रेधा-वैदिक
(प्राकृतं वा) लौकिक (संस्कृतादिलोकभाषानिबद्धम्), उभयसाधारणं च । तत्र लौकिक त्रेधा गणच्छन्दः, मात्राच्छन्दः अक्षरच्छन्दश्चेति । तथा च संगृह्णन्ति--
"प्रादौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् । .. तृतीयमक्षरच्छन्दः छन्दस्त्रेधा तु लौकिकम् ॥ ... प्रार्याधुद्गीतिपर्यन्तं गणच्छन्दः समीरितम् । ........ मात्राच्छन्दश्चूलिकान्तमौपच्छन्दसिकादिकम् ।
सामान्याद्युत्कृति यावदक्षरच्छन्द एव च ॥” इति ॥ (५) परे तु पद्यच्छन्दश्चतुर्घा विभेजुः-अक्षरच्छन्दः, मात्राच्छन्दः, अक्षर
गणच्छन्दो मात्रागणच्छन्दश्चेति भेदात् । यत्र मात्राणां न्यूनातिरेकेऽप्यक्षरसंख्यानं तदक्षरच्छन्दः यथाऽनुष्टुबादि । यत्राक्षराणां न्यूनातिरेकेऽपि मात्रासंख्यानं तन्मात्राच्छन्दः । यथोपच्छन्दसिकवतालीयादिकम् । यत्र पुनरक्षरगणानां क्रमसन्निविष्टानां व्यवस्थया छन्दःस्वरूपसिद्धिस्तत्राक्षराणां गुरुलघुस्थानानां च नियतत्वादक्षरगणच्छन्दस्त्वेन व्यवहारः। यथेन्द्रवज्रा-स्रग्धरा-वसन्ततिलका-मन्दाक्रान्तादि । .. एवं यत्र मात्रागणानां
'..