Book Title: Bhikshu Mahakavyam Part 02
Author(s): Nathmalmuni, Nagrajmuni, Dulahrajmuni
Publisher: Jain Vishva Bharati
View full book text
________________
अथ प्रशस्तिः
१. श्रीमद्भिक्षोर्मुमुक्षोजिनवरसमयाबमूलं समूलं,
शुद्धाध्यात्मकलक्ष्यं सुललितरचनारम्यरूपावलीढम् । व्योमानन्तप्रदेशोपममतिशयितं सिद्धसिद्धान्तसिद्धं, वृत्तं व्यूढं प्रगूढं कथमिह कवितायां निबन्नामि पूर्णम् ॥
२. धन्यास्ते भारिमालप्रभूतगणभतस्तस्य ज्योतिर्मयस्य,
पट्टालंकारभूतास्तववितथपथप्रीतपान्थाः प्रसिद्धाः। वीरा वीराप्रवन्द्यास्तवमलनियमान सिद्धसिद्धान्तसिद्धान्, प्राणान् पाणौ गृहीत्वाऽवितुमनिशमहो बद्धकक्षा बभूवुः॥
३. आदौ पट्टे तदीये गरिमगुणगणो भारिमालो मुनीन्द्रः,
पश्चाच्छोरायचन्द्रस्तदनुजयगणिस्तत्त्वकोट्यां प्रकाण्डः। मौनाचारकवक्षस्तदनु च मघवा षष्ठमाणिक्यलालस्तस्माच्छोडालचन्द्रस्तदनु मम गुरुः कालुरामो गणीन्द्रः।।
४. तत्पट्टाम्भोजभानुर्गणपतितुलसीः साम्प्रतं वर्तमानो,
यस्य श्लाघाप्रकोष्ठे प्रविशति भुवनं व्योमवेशे यथैव । ख्यातिः प्रख्यातिरस्य श्रुतिपटपटली धूनयेन्नात्र केषां, सन्दग्धं काव्यमेतत्तदमलकृपया नन्दतो नन्दनीयम् ॥

Page Navigation
1 ... 303 304 305 306 307 308