Book Title: Bhashya Trayam
Author(s): Devendrasuri
Publisher: Ashapuran Parshwanath Jain Gyanbhandar
View full book text
________________
अष्टोत्तरीबृहच्छान्ति-स्नात्रमुल्लासपूर्वकम् । प्रभोर्जातं मनोवार्धि-समुल्लासनिबन्धनम् ॥ २२ ॥ प्रभोः प्रतिष्ठया सार्धं, प्रतिष्ठितोऽत्र यक्षराट् । माणिभद्राभिधो वीरः, तपोगच्छैकरक्षकः ॥ २३ ॥ पद्मावती तथा देवी, जिनाधिष्ठानकारिणी । प्रतिष्ठिताऽत्र सच्चैत्ये, भक्तानां शुभदायिनी ॥ २४ ॥ कल्याणकविधी रूप्य-मये पार्श्वेश्वरेऽभवत् । पञ्चधातुमयः शान्ति-नाथोऽत्र शुशुभेतराम् ॥ २५ ॥ पञ्चधातुमयं सिद्ध-चक्रं देदीप्यतेतराम् । अहो जैनेश्वरं चैत्य-महो भक्तिर्जिनेश्वरे ॥ २६ ॥ चैत्यनिर्मापणे सूरे-रूपदेशोऽभवत् शुभः । वैराग्यदेशनादक्ष-हेमचन्द्रप्रभोरिह ॥ २७ ॥ वर्धमानतपोऽब्धेश्च, कल्याणबोधिसद्विभोः । सूरेः सत्प्रेरणा जाता, सफलेह न संशयः ॥ २८ ॥ शिल्पशास्त्रपरिज्ञाता, सौम्यरत्नमुनिस्तथा । हेतुरत्राभवच्चैत्य-शुद्धताया विशुद्धधीः ॥ २९ ॥ आशींषि गच्छनाथस्य, सिद्धान्तोग्ररुचेरहो । ववर्षुः सन्तत सम्यक्, जयघोषविभोरिह ॥ ३० ॥ हेमचन्द्र-गुणरत्न-मुक्तिचन्द्राख्यसूरयः । मुनिचन्द्र-रश्मिरत्न-महाबोधिः सुसूरयः ॥ ३१ ॥ कल्याणबोधि-संयमबोधिसूरी तथैव च । सत्सान्निध्यं ददुरत्र, शासनकप्रभावकम् ॥ ३२ ॥ श्रमणश्रमणीवृन्दं, सुविशालमभूदिह । प्रभुप्रतिष्ठ्या कान्ते, कमनीये महोत्सवे ॥ ३३ ॥
प्रशस्तिः

Page Navigation
1 ... 60 61 62 63 64 65 66