Book Title: Bharatiya Darshan me Atma mimansa Author(s): Arunvijaymuni Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf View full book textPage 5
________________ ३१२ श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड +++++++++++++++++++++++++++on+HummHHHHHinrn+ne+------------ तथा च न्याय कन्दल्यां श्रीधर भट्ट नोक्तं "सर्वगतत्वेऽप्यात्मनो देह प्रदेशे ज्ञातृत्वम्, नान्यत्र । शरीरस्योपमोगायतनत्वात् अन्यथा तस्य वैधादिति ॥" तथा चात्मनो बुद्ध यादयोगुणाः शरीरमेवोपलभ्यन्ते । अतो गुणिनापि (आत्मना) तत्र भाष्यम् । यथा अन्ययोग व्यवच्छेद द्वात्रिंशिकायामुक्तं हेमचन्द्राचार्येण यत् “यत्रव यो दृष्टगुणः स तत्र कुम्भादिवग्निष्प्रतिपक्षमेतद् । तथापि बेहाद् बहिरात्मतत्त्वमत्तत्ववादोपहता पठन्ति ॥" यथा कुम्भादेयंत्रव देशे रूपादयो गुणा उपलभ्यन्ते, तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्या द्योदेहे एव दृश्यन्ते न बहिः। अतस्तनुपरिमाण एवाङ्गीकर्तव्यो न व्यापकः । चेतनत्वात्, यत्तुव्यापकं, न तत् चेतनम्-पथा व्योम चेतनश्चात्मा तस्मात् न व्यापकः । अव्यापकत्वे चास्य तत्रवोपलभ्यमानगुणत्वेन कायप्रमाणता सिद्धा भवति । आर्हतमते समुद्घाताख्या क्रिया वर्तते । सा चाल्पाधिककर्म पुद्गल परमाणूनां तुल्यीकरणाथ क्रियते । अतोऽष्टसमयसाध्य केवलि समुद्घातदशायां चतुर्दश रज्वात्मक [त्रिखंडलोक ब्रह्मांडात्मक], व्यापित्वेनात्मनः कथंचित् सर्वव्यापकत्वमाहत स्वीक्रियते । सा च क्रिया कादाचित्कीति न तेन व्यभिचारः । प्रतिक्षेत्रं विभिन्न-मित्यनेन विशेषणेनात्मनः शरीरवाच्छिन्नत्वस्य विचारः कृतः। अधुना दृश्यमानानां शरीराणां संख्या बाहुल्यादात्मनोऽपि संख्या बाहुल्यमङ्गीकरणीयम् यत्र-यत्र सक्रियं शरीरं, तत्र-तत्र आत्मा यथा नृपश्वादीनाम् । अनन्तात्मवादिनो जिनानुयायिनः प्रतिक्षेत्र प्रतिशरीरं विभिन्न-विभिन्नात्मनोऽस्तित्वमङ्गीकुर्वन्ति । ___ "एग सरीरे एगो जोवो, जेसि तु ते य पत्ते या" प्रत्येक जीवानां शरीरे एक एवात्मा तिष्ठति । प्रतिशरीरमात्मनो भिन्नत्वात्, अनन्तात्माहतदर्शने दृश्यते । ते च प्रत्यक्ष सिद्धाः । शरीरमाश्रित्य “इन्द्रिय व्यवहारानुसारेण जीवानां बहवो भेदोपभेदा जैन जीवविज्ञाने दर्शिता।" श्रीमद् मध्वाचार्येण सर्वदर्शनसंग्रहे सप्ततितमे पृष्ठे समीचीनमुल्लेखितम् । जिज्ञासुभिर्द्रष्टव्यम् । ___ सक्रिये देहे चेतनाया अनुमानानुभूतित्वात् । सर्वेषु देहेषु आत्मनः स्वतन्त्रास्तित्वमङ्गीकरणीयम् । अत एकेतरदेहभिन्नसिद्ध रनेकात्मनोऽपि सिद्ध यति । तथा चैक आत्मा जलेन्दुबिम्बवदुपाधिभेदात् नानारूपे प्रतिभासते, इत्यवतमतेप्यापत्तिरागमिष्यति । सर्वेषु प्रतिबिम्बेषु सुख-दुःखादीनां समानरूपता । तथा चाऽगमेतर प्रमाणानामप्यभावत्वेन प्रत्यक्षप्रमाणेन व्यवहारसिद्धा बहवः पदार्था सन्ति । ते च स्वीकारार्हाः। अनेन चाद्वै तस्य सत्ताऽपि स्थातु नार्हति । पौद्गलिकादृष्ट्वानिति-विशेषणं नास्तिकादिमतं निरसितु दत्तम् । नास्तिकमतवादनश्चार्वाका अदृष्टं नाङ्गीकुर्वन्ति, अदृष्टस्य प्रत्यक्षाभावादित्युच्यते। चेद् स्वपितामहः प्रपितामहादिष्वभावस्वीकर्तव्या, दीर्घकाले जातानां चक्षुगोचराभावात् । तेषामभावे भवतोऽप्यभावो भविष्यति, पितुरभावे पुत्राभावः। तथा च 'अदृष्ट सिद्ध्यर्थ' अदृष्टेतरकारणत्वेनाङ्गीक्रियते चेद्, अनवस्थादोषागमो भविष्यति । “पौद्गलिका दृष्टवान्" इत्यतः पुद्गलघटित कर्म परतन्त्रोऽर्थोऽस्ति । नैयायिकानां मते, अदृष्टेन ये धर्माधर्माः स्वीक्रियन्ते तेषामप्यत्र पौद्गलिकत्वेन विशिष्टा विचारा भविष्यन्ति । पुद्गला:-इति=पूरण-गलन स्वभावयुक्ताः परमाणवो ये पौद्गलिकास्तेषां पुण्यपापानां (धर्माधर्माणां) यः कर्ता स एवात्मा । यथा शास्त्रवार्तासमुच्चये हरिभद्रसूरिचरणलिखितं यत् "यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, सह्यात्मा नान्यलक्षणः ॥" पुद्गलघटितकर्माणां यः कर्ता, कर्मणो, भेदोपभेदानां यो बन्धकस्तथा च तेषां पुण्यपापात्मक शुभाशुभकर्मणां विपाकानां यो भोक्ता–अनुमविता स एवात्मा । पौद्गलिकं चेदमः-आत्मनः पारतन्त्र्यनिमित्तत्वात् निगडादिवत् । क्रोधे राग-द्वेषाद्यात्म परिणामरूपाणां पारतन्त्र्यस्वभावत्वात्, तन्निमित्तभूतस्य तु कार्मणः पौद्गलिकत्वात् । पूर्वकर्म विपाकवशगो हि प्राणी रागद्वेषादिना प्राणव्यपरोपणादि हिंसाकार्याणि कुर्वाणः कर्मणा बध्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6