Page #1
--------------------------------------------------------------------------
________________
G
. ३०८
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्य खण्ड
भारतीय दर्शन में प्रात्म-मीमांसा
* श्री अरुणविजयो मुनि
जगतीतले बह्वो धर्मा-दर्शनानि च सन्ति । विश्वदर्शनेषु भारतीयदर्शनान्यग्रिमस्थानारूढानि सन्ति । दर्शनक्षेत्र दृष्टादृष्ट-सर्वेषां पदार्थानां तलस्पर्शिज्ञानमुपालम्भते । सर्वदर्शने जैनदर्शनमपि स्वतंत्र प्राचीनं च परिगण्यते । अस्य प्ररूपका उपदेष्टार तीर्थकरा आर्हताः । अतोऽमुमार्हत दर्शनमप्युच्यते । आईतार तीर्थंकरा आदिनाथमहावीरस्वामि भगवत् सदृशाः सर्वज्ञाः सर्वदशिन एव भवन्ति ।
___ जैनदर्शनेप्यात्म-परमात्म, लोकालोकात्परलोककर्म-धर्मादिदृष्टादृष्टप्रभृतीनां सर्वेषां पदार्थानां विचारविषये सिद्धान्ताश्च दृश्यन्ते।
आस्तिकदर्शनानामुहापोहयोः केन्द्रस्थानं प्रायेण "आत्मा" अस्ति । प्रत्यक्षाभावातात्मविषये भिन्न-भिन्न दर्शनेषु भिन्ना-भिन्ना विचारधाराः प्रचलन्ति । दर्शनेतरैः साकं जैनदर्शनस्यात्मविषयकसिद्धान्तानां प्रस्तुते प्रबन्धे विमर्शः क्रियते ।
आत्मज्ञानेनैवात्मप्रतीतिर्मविष्यति। आत्मज्ञानमेव मोक्षं प्रति कारणमस्ति । तच्चानुमानादि प्रमाणे व भविष्यति । सर्वज्ञोक्तागमादि शास्त्राणामालम्बनमेव प्रधानाधारो वर्तते । अत अर्हत सर्वज्ञोक्तागमाधारमवलम्ब्य तेषां वचनानुसारेण सिद्धान्तस्तुतिपूर्वकं शब्दकुसुमाञ्जलि भिजिनार्चनं प्रस्तुते प्रबन्धे क्रियते ।
भगवतार्हता नवतत्त्वानि प्रतिपादितानि । तद्यथा--(१) जीवः (२) अजीवः (३) पुण्यम् (४) पापम् (५) आश्रवः (६) संवरः (७) निर्जरा (८) बंधः () मोक्षश्च । एतेषु पदार्थेषु जीवाजीवौ पदाथों द्वावेव मूलतत्त्वे । अन्यानि तत्त्वानि अनयोरेव संयोग-वियोगजन्यावस्थाविशेष वाचान्येव । हितेमतेऽनन्तधर्मात्मकं द्रव्यम् । तत् च गुणपर्यायात्मकम् , उत्पादव्यय ध्रौव्यात्मकस्वभावम् । "उप्पन्नेई वा विगमेई वा धुवेई वा" इतित्रिपदी भगवतोपदिष्टा।
ऐन्द्रियप्रत्यक्षदृष्ट वस्त्वस्तित्ववादिश्चार्वाका अदृष्टं नाङ्गीकुर्वन्ति, प्रत्यक्षगोचराभावात् । चैतन्यरहिता अजीवाः ते च प्रत्यक्षगोचराः । प्रत्यक्ष प्रियश्चार्वाकाश्चेतनायुक्तमात्मानं न स्वीकुर्वन्ति, अदृष्टत्वात् । ये ये दृष्टास्तेषां सत्तात्मकमं तैरङ्गीक्रियते, यथा घटपटादिकम् । चेतना-शक्तिर्भूतेष्वेव दृश्यते । अतःदेहाद् भिन्न आत्मनामको कश्चन पदार्थ एव नास्तीति भूतचैतन्यवादिनां-देहात्मवादिनामेव मतम् । ते च वदन्ति पृथ्वी-जलाग्नि-वाय्वादिभूतचतुष्टयेभ्यो विशिष्टरासायनिक संमिश्रणेभ्यश्चेतनाशक्तिरुद्भवति । शरीरवत् स एवात्मा, नान्यः ।
यथा मध्वादि पदार्थानां बहुयातयामत्वेन मदिरा भवति, तस्याञ्च मदशक्तिरागच्छति । तथैव भूतचतुष्टयानां विशिष्टसंयोगेन चैतन्यशक्तिरप्युद्भवति । अतश्चैतन्यं देहधर्म एव न चात्मनः । अत एव जीवनप्रवाहो गर्भकालादारभ्य मृत्युपर्यन्तमेवास्ति । अन्ते समये शरीरयन्त्रे विकृत्यागमने चैतन्यशक्ति शो भवति स एव मृत्युः ।
ऐतिहासिक्यादृष्या भूतचैतन्यवादः प्राचीनतमोऽस्ति । उपनिषदि, जैनागमे, बौद्धपिटकेषु चास्योल्लेखः पूर्वपक्ष रूपेण निर्दिष्टः । जयन्तसदृशः समर्थ नैयायिकरप्यस्य चार्वाकरूपेण निर्देशो कृतः । एतत् सदृशं 'तज्जीवतत्शरीरवादस्योल्लेखः सूत्रकृताङ्ग, विशेषावश्यक भाष्ये तथैव च मज्झिमनिकायेप्युपलभ्यते ।
भूतानां जडत्वन्तु चार्वाकरप्यङ्गीक्रियते । जडेष्वेव चैतन्योत्पत्तिरिति तेषां मतम् । परमेतत् तर्कप्रमाणेन परीक्षिते न सिद्धान्तगामि भविष्यति । यतो हि भूत चैतन्ययोः कार्यकारणभाव इति पक्षमवलम्ब्य विचार्यते कारणगत धर्मवैचित्रकायें कथमागमिष्यति ?
Page #2
--------------------------------------------------------------------------
________________
भारतीय दर्शन में आत्म-मीमांसा
३०६
.
यद्यताह कार्यकारणभावेङ्गीक्रियते चेद् घट सामग्र या पटस्योत्पत्तिर्भविष्यति । परं तथा प्रतीतिस्तु न दृश्यते । अतो जडात् चैतन्योत्पत्तिरिति व्यवहारस्त्वलीक एव ।
तथा च चैतन्यं जडस्वरूपमित्यपि वक्तुं न शक्यते । व्यर्थपदार्थान्तरकल्पना गौरवाच्च । अतो भूतचैतन्यवादस्तु न तर्कसंगतः।
तथा च चैतन्यं न दृष्टम् । तत् त्वतीन्द्रियग्राह्यम् । अतएव तस्य स्वीकारो न कर्तव्य इति तेषां मतम् ।
अदृष्टपदार्थस्यादृष्टताप्रतिपादकं किमपि प्रमाणं नास्ति । अतएव प्रमाणाभावात् प्रमेयस्यापि सिद्धिर्न भविष्यति ।
परमत्र विचारणीयो विषयस्तु स एव यतो हि कुत्रापि अदृष्टः पदार्थों नास्ति । शशशृङ्गवदलीककल्पना गम्यमिति ये वदन्ति तेषां कथनं तु निरर्गलमेव । प्रत्यक्षादि-प्रमाणविचारावसरे प्रमाणगतपदार्थनां याथार्थाङ्गीकरणीयमेव । प्रत्यक्ष आत्ममनःसंयुक्तेन्द्रियस्यैव कारणता, तत्रेन्द्रियत्वं किमिति प्रश्ने-अलौकिक एव पदार्थ परिकल्पनीयो भवति । मृतदेहेष्विन्द्रियस्याधिष्ठानभूतस्य स्थाने सत्त्वेपीन्द्रिय द्वारा संपादिते व्यवहारेऽक्षमता दृश्यते । अतस्तत् तदिन्द्रियाश्रयीभूतं किंचिदृष्ट वस्त्वङ्गीकरणीयमेव । अतोऽदृष्टपदार्थानङ्गीकारे सर्वत्र प्रमाणाभावस्य संचारो भविष्यति । तेन च प्रमेयसिद्धिः कदापि न भविष्यति । किञ्च मेघाधीना मानसिद्धिरिति नैयायिकानां सिद्धान्तः । अतोऽदृष्यमिन्द्रियं प्रत्यक्षादि व्यवहारमूलकमिति तु सिद्ध भवति ।
एतादृशेन विचारेण चार्वाकस्तु सर्वथा परास्तो भविष्यति । अतश्चार्वाकमतं तत्त्वज्ञान परिकल्पित तात्पर्य निर्यायार्थकिञ्चित्यकरमेव ।
जैनदर्शने आत्म लक्षणम् "चैतन्यस्वरूपः परिणामी, कर्ता, साक्षाद् भोक्ता, देहपरिमाणः ।
प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्ट्वांश्चायम् ॥" परमश्रद्धयर्भगवत् पादः श्रीमद्भिर्वादिदेवसूरिमहाराजैरात्मनो लक्षणमेतादृशं कृतम् । अस्मिल्लक्षणे प्रदत्तविशेषणे दर्शनेतराणां निरासपूर्वकमाईतसिद्धान्तस्योपबृहणं कृतम् । जिनानुयायिन आत्मनश्चैतन्यस्वरूपमुद्घोषयन्ति ।
चेतना नाम 'आत्मशक्तिविशेषा'। चैतन्यमेवात्मनोऽसाधारणलक्षणम् । तदेव जीवाजीवयोविभेदकम् । अत उक्तं 'चेतना लक्षणो जीवः' इति । चैतन्यं साकार निराकारोपयोगाख्यम् तच्च ज्ञानदर्शनात्मकम् अनेन विशेषणेन चार्वाकान्यायवैशेषिकाश्च परास्ताः।
नैयायिकानां मते आत्मा जड रूपः (ज्ञान-शून्यः) तथा चात्मज्ञानयोः सर्वथा भेदः परं समवाय संसर्गेनात्मज्ञानयोः संबन्धो भवति । यत आत्मतानयोरभिन्नः सम्बन्ध: स्वीक्रियते चेत् ज्ञाननाशादात्मनाशोप्यङ्गीकरणीयमेव । परम-आत्मा तु नित्य द्रव्यत्वेन तैरेवाङ्गीकृत अतस्तयोरभेद रूपतात्वङ्गीकर्तुं न शक्यते नैयायिकरपि ।
तथा च रागद्वेषी, मोह दोष प्रवृत्तिः जन्म दुःखं चैतेषां क्रमशोनाशे बुद्ध यात्मगुणानां ध्वंसः, अन्ते चात्मनोऽपि नाश संभावना भवेत् । __ तथा चात्मा कर्ता ज्ञानं च करणमित्यस्य व्यवहार लोपभयाद् कामतया तैरात्मज्ञानयोरभिन्नत्वं न स्वीक्रियते ।
अत्रार्हताः "ज्ञानमया एवाऽयमात्मा" इति पक्षवादिनः। तथा च नैयायकाः "ज्ञानाधिकरणमात्मा" इति पक्षवादिनः ।
आत्मज्ञानयोः सर्वथा भिन्नत्वं न युक्तम् । यतश्चैत्रमैत्रयोर्ज्ञानस्य पृथक्त्वात् मैत्रज्ञानेन चैत्रः पदार्थ नानुभवेत् । तथैव चैत्रस्य ज्ञानमपि चैत्रादभिन्नत्वात् चैत्रस्यज्ञानेनापि चैत्रस्यात्मनो ज्ञानं न भवेत् । अर्थात् यथा अन्यस्यज्ञानेनाऽस्माभिर्न ज्ञायते, तथैवाऽस्माकं ज्ञानेनापि वयं ज्ञातुन शक्नुमः, भिन्नत्वात् ।
यदि समवायेन ज्ञानमात्मनि तिष्ठति चेद्, तदेवज्ञानं तस्मिन्नेवात्मनि वस्तुबोधं कारयितु समर्थम् । अतश्चअस्य ज्ञानं चैत्रादभिन्ने सत्त्वेऽपि समवाय सम्बन्धेन संयुक्तमस्ति अतो दोषनिरासः ।
परमेतल्यायविरुद्ध मतम् यतो न्यायमत आत्मा सर्वव्यापकः कूटस्थोनित्यश्च । तथा च समवायोऽपि नित्यः सर्वव्यापकः । अत: एकस्य ज्ञानेन सर्वेषां ज्ञानं भवतु । परमेतद् व्यवहारे न दृश्यते, यथा घटे घटरूपे च समवाय सम्बन्धः
Page #3
--------------------------------------------------------------------------
________________
३१०
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड
सत्वात्, घटरूप नाशे तदाधारस्यापि नाशो भविष्यति । तथैवात्मना साकं समवायेन सम्बन्धेन सम्बन्धिज्ञानस्य नाशे आत्मनोऽस्तित्वेऽप्यापत्तिरापतिष्यति । नित्यतायास्तु प्रश्न एव नोद्भवति ।
यद्यात्मज्ञानयोः समवाये समवायेतरस्य कल्पना क्रियते चेदनवस्थादोषापत्तिः ।
स्व-परप्रकाशकप्रदीप दृष्टान्तदानेन समवायः स्वस्वभावेनैवात्मज्ञानयोः स्वेन साकं सम्बध्यते, एतदपि युक्त्यसंगतम् । यतो न्यायमते धर्म-धर्मिणौ सर्वथा भिन्नौ स्तः । येन तेजो यस्य द्रव्यं, प्रकाशश्च यस्य धर्मः तेन प्रदीपदृष्टान्तेन युक्तिन संभवति । कारणम्, एकान्तेन भेदः स्वीकारे प्रदीप एवं कथं भवति ? यदि न्यायमते प्रदीपस्य स्वपर-प्रकाशकत्वमेव न सिद्ध यति, ततोऽस्थाधारे समवायस्य सिद्धिः कथं संभवेत् । तथा च यावत् समवायो न सिद्ध यति तावदन्या ऊहापोहो वायुतरङ्गवत् निराधारौ।
समवायस्य स्वपर-प्रकाशकः स्वभाव एव, समवायेन भिन्नो वाऽभिन्नो वा ? आद्यपक्ष स्वीकार उभयमपि समवायस्य स्वभाव-स्वरूपमिति कथं भवेत् ? अस्याधारेऽन्यतर समवाय कल्पनापि कर्तुं न शक्यते ! अनवस्थादोषागमात् ।
द्वितीयेऽभिन्ने पक्षे स्वभावास्तित्वं विना समवायमात्रमेवावशिष्टं भवति ।
समवायिषु यदि समवायस्य ज्ञानं समवायान्तरेण विना स्वत उद्भवति चेद् "आत्मविज्ञानं" इति प्रतीतौ समवायस्य काऽवश्यकता ? अतो ज्ञानम् आत्मनः सर्वथा भिन्न नास्ति । आत्मनि चैतन्यं भिन्नाभिन्नत्वेनाङ्गीकरणीयम् । सर्वेषां वस्तूनामनैकांतिकत्वात् । न तु सर्वथा भिन्नं न च सर्वथाऽभिन्नम् । एकान्त भिन्नपक्षे "अहं सुखी, अहं दुःखी, अहं जानामि" प्रभूत्याभेद प्रतिभासः कथं भवेत् ? तथैव सर्वथाऽभिन्नपक्षे, आत्मा स्वरूपी चतन्यं च तस्य स्वरूपमस्ति, एतादृक् भेदामाव आगमिष्यति ।
आत्मनोस्तित्वस्य सिद्धयर्थं चैतन्यकारकं ज्ञानमेय स्थायी गुणः । अस्याभावे सिद्धेरभावः । परिणाम्यात्मापरिणमनं प्रतिसमयमपरापरपर्यायेषु गमनं परिणामः स नित्यमस्यास्तीति परिणामी।
परिणामोऽवस्थान्तर गमनं न च सर्वथा ह्यवस्थानम् ।
न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः ॥ पातञ्जल टीकाकारोप्याह-"अवस्थितस्य द्रव्यस्य पूर्वधर्म-निवृत्ती धर्मान्तरोत्पत्ति: परिणामः इति ।"
अनेन परिणामी विशेषणेन नैयायिकानां कूटस्थनित्यतामतं तिरस्कृतम् । कूटस्थनित्यवादिनो नैयायिका नित्यआत्मनि कर्तृत्वं भोक्तृत्वं, जन्म-जरा-मृत्वादिकमपि संभवतीत्यामनन्ति । यथा ज्ञानमिच्छादीनां सम्बन्धेन कतृत्वं सुखदुःखादीनां सम्बन्धेन वियोगेन च जन्म-मृत्यू भवतः ।
परमेतन्नयुक्तिसंगतम्-पूर्वावस्थाऽभावे उत्तरावस्थायाः प्राप्तिः सम्बन्धमित्युच्यते । तथा च कूटस्थ नित्यपक्षे संबन्धस्य संभावनैव कथं भवेत् । सम्बन्धेन बिना सम्बन्धिषु कर्तृत्वस्य भोक्तृत्वस्य च प्रलापो व्यर्थ एव । पूर्वावस्थाया परित्यागेन विना ज्ञानादीनां समवायस्योत्पत्तिः स्वीकारे वन्ध्य पुत्र जन्मोत्सववत् भविष्यति ।
तथा च ज्ञानोत्पत्तिसमयेऽपि पूर्वावस्थावदेवात्मा परिकल्प्यते, पूर्वावस्थायां परिच्छेदकाभाववानासीत, अनन्तरं च ज्ञानोत्पत्तिसमये पदार्थपरिच्छेदकत्वं कथं संभवति ?
कारणं प्रतिनियतस्वरूपाप्रच्युतिरूपत्वं कौटस्थ्यम्। आत्मनि पदार्थपरिच्छेदकत्वं मन्यमाने, प्रथमं योऽप्रमाताऽसीत् सैवाधुना प्रमातृत्वेन परिणतः । अनेन तु कूटस्थनित्यता कथं संभवेत् ? अपरापरपर्यायेषु गमनेनाऽत्मनोऽवस्था परिवर्तते । गुणोऽयं जडे नोपलभ्यते, अतः परिणाम्यात्मा । कर्ता, साक्षाद् मोक्ता
कर्ता, साक्षाद् भोक्तं ति विशेषणयुगलेन कापिलमतं भिद्यतेः । तथाहि कापिलाः कर्तृत्वं प्रकृते प्रतिजानीते न पुरुषस्य । पुरुषस्तु
अमूर्तश्चेतना भोगी, नित्यः सर्वगतोऽक्रियः ।
अकर्ता निर्गुणः सूक्ष्म, आत्मा कापिल्यवर्शने ॥ अन्धपङ्ग वत् प्रकृति पुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या । यत इन्द्रियद्वारेण सुख-दुःखादयो विषयाः बुद्धौ प्रतिसंक्रामन्ति बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुख्यहं मित्युपचारः । आत्मा बुद्ध रव्यतिरिक्तमभिमन्यते ।
.
Page #4
--------------------------------------------------------------------------
________________
भारतीय दर्शन में आत्म-मीमांसा
३११
.
००
____ आह च पतञ्जलि:-"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन् न तदात्मापि तदात्मक इव प्रतिभासते" इति । चिच्छक्तिसन्निधानाच्चाचेतनापि बुद्धिश्चेतनावतीवावभासते । वादमहार्णवोप्याह-"बुद्धिदर्पणसंक्रान्तमर्थ प्रतिबिम्बकं द्वितीयदर्पणकल्पे पुस्यध्यारोहति । तदेव भोक्तृत्वमस्य न त्वात्मनो विकारापतिरिति पूर्व पक्षः।"
अथ-पुरुषोऽगुणोऽपरिणामी चेद् कथमस्य मोक्षोभविष्यति ? 'मुच्' धातोर्बन्धन विश्लेषार्थत्वात् बन्धस्यैव मोक्षो-भविष्यति । अपरिणाम्यात्मनि वासनाक्लेशकर्मणा संबंधेन बन्धस्योत्पत्तिरेव न संभवति अत एवाऽत्मनो निष्क्रियत्वे परलोकः संसारादिकमपि न भविष्यति ।
सत्त्वेऽपि चैतन्य शक्तिः सा विषय परिच्छेदशून्येति परस्परं विरुद्ध वचः । 'चिति संज्ञाने' इति ज्ञानार्थे 'चित्' धातु प्रयुक्तः । चित्यते अनयेति चैतन्यमस्ति । यदीयं शक्तिः स्वपरप्रकाशिका नास्ति चेद् कथं सा चेतनाशक्तिरुच्यते, यथा घटः । चेतनाशक्तेः प्रतिबिम्ब बुद्धवागन्तु नार्हति, मूर्तधर्मत्वात् । मूर्तपदार्था एवं प्रतिबिम्बन्ते।
आत्मगतसुखदुःखानामनुभवो निराधार एव, आत्मनासाकं तेषां सम्बन्धाभावात् । यदि सुखदुःखयो ज्ञानं बुद्धिजन्यमुच्यते चेद् तदप्ययुक्तम् । सांख्यमते बुद्ध जडत्वात् । सुखदुःखादीनामनुभाविका सत्वेपि बुद्ध जडत्वकल्पने विरोधाभासो भविष्यति । बुद्ध जडत्वकल्पने जयपदार्थानां ज्ञानाभावो भविष्यति ।
यद्यात्माऽकर्तास्ति चेद् भोक्ता-अनुभवितापि कथं भवेत् ? दृष्ट व्यवहारेऽपि कर्ताएव सफल भोक्ता भवति । अन्यस्य क्रिययाऽन्यस्य तृप्तिः कथं भवेत् ? यथा चैत्रस्य भोजनेन मैत्रस्य तृप्तिः, एतादृशो व्यवहारो नावलोक्यते । भोक्तृत्व कर्तृत्वे कार्यकारणभाव सम्बन्धो दृश्यते । भोक्तृत्वं कार्यान्तरगतं, कर्तृत्वं च कारणान्तर्गतम् । यथा घटकार्यसत्वे मृत्तिकादिकारणमस्त्येव, तथैव भोक्तृत्वानुगतं कर्तृत्वम् । भोवर्तृत्वाङ्गीकृते कर्तृत्वमवश्यमङ्गीकरणीयमेव ।
___'अचेतनापि बुद्धिश्चिच्छक्ति सानिध्याच्चेतनावतीवावभासते इत्यप्ययुक्तं प्रतिभाति । यथा यस्मिन्दर्पणे प्रतिबिम्बयते तस्मिन्दर्पणेऽपि चेतनापत्तिरापतिष्यति । तथा च चैतन्याचैतन्ययोरपरावर्तिस्वभावत्वेन पुरन्दरेणाप्यन्यथा कर्तृमशक्यत्वात् । किञ्चाऽचेतनापि चेतनावतीव प्रतिभासत इति 'इव' शब्देनारोपो ध्वन्यते । न चारोपोऽर्थक्रियासमर्थः । यथाऽतिकोपनत्वादिना समारोपिताग्नित्वो माणवक: कदाचिदपि मुख्याग्नि साध्यां दाहपाकाद्यर्थक्रियां कर्तुं न समर्थ इति चिच्छक्तरेव विषयावसायो घटते न जडरूपाया बुद्ध रिति ।
__ अत एव धर्माद्यष्टरूपताप्ति तस्य वाङ, मात्रमेव । धर्मादीनामात्मधर्मत्वात् । अत एव चाहङ्कारोपि न बुद्धि जन्यो युज्यते, तस्याभिमानात्मकत्वेनात्मधर्मस्याचेनादुत्पादायोगात् । इत्यादि विचारानुसारेण कर्तृत्वं साक्षाद् भोक्तृत्वं च युक्तिसङ्गतं दृश्यते ।
स्वदेह परिमाणः स्वदेह परिमाण-इत्यनेनापि नैयायिक वैशेषिक सांख्यादि-परिकल्पितमात्मनः सर्वगतत्वं निषिध्यते ।
नैयायिक-वैशेषिक-सांख्य प्रभृतिभिर्दशनैरात्मनो विभुत्वं सर्वगतत्वमङ्गीक्रियते। अद्वैतवादिनोऽप्यात्मान एकत्वं विभुत्वं चाङ्गीकुर्वन्ति । देहाद् बहिरप्यात्मा सर्वत्र वर्तते सर्वव्यापकत्वादिति तेषां मतम् ।
परं यद्यात्मनः सर्वव्यापकत्वमङ्गीक्रियते चेदात्मेतर पदार्थानां सत्तं व कथं संभवति । तथा च एकात्मनि-अहं सुखी, अहं दुःखी, अहं ज्ञानी इत्याकारके प्रत्यये जाते सर्वात्मनि समानरूपेण सुख-दुःखादि ज्ञानं भविष्यति, सर्वव्यापकत्वात् । एकेन भोजनेकृतेप्यन्येषां सर्वेषां क्षुत्तृप्तिरपेक्ष्यते । परं लोक-व्यवहारेऽपि तथा नावलोक्यते । तथा च सुख-दुःखादीनां संवेदनापि सदृशाः समकालीना च भवतु, आत्मनः सर्वव्यापकत्वात् । यद्यात्मा सर्वव्यस्ति चेद्-एक समयावच्छेद एव नृदेवतिर्यङ नारकगतीनां भावाभावानां सुख-दुःखादि संवेदनानां ज्ञाता भविष्यति ।
परं सर्वासु गतिषु सुख-दुःखादीनां वैषम्यमनुभूयते । एकस्य बन्ध-मोक्ष प्रसंगे सर्वेषां तथैव भवतु । न च तथा दृश्यते । सर्वे जीवा: स्वस्वकर्मविपाकानुसारेण बन्ध मोक्ष प्राप्नुवन्ति ।
___ इत्थं देहाबहिः सर्वव्याप्यात्मवादे महत्यापत्तिरापतिष्यति । तथा च देहबाह्यात्मवाद आत्माकाशयोः को भेदो भविष्यति ? व्योमवदात्मविभुवाद आत्मनि क्रियापि कथं सम्भविष्यति ? अनेन च संसारास्तित्वमेव गच्छति । तथा चात्मविभुवाद ईश्वर मतवादिन आत्मनि जगत्कर्तृत्वं कथं न स्वीकुवंन्ति ? उभयव्यापकत्वात् । यद्यात्मैवेश्वर ईश्वरैवात्मेत्युच्चते चेदात्मनि कर्तृत्वापत्तिरापतिष्यति । कर्तृत्वं तु समान स्वरूपं भविष्यति, अतः पापनरकादिवद भद्ररूपमीश्वरात्मनो भवेत् ।
भावार्थस्त्वयमात्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धः । यो यः सर्वत्रानुपलभ्यमानगुणः स सर्वगतो न भवति, यथा घटः तथाचाऽयम्, तस्मात् तथा व्यतिरेके व्योमादि ।
Page #5
--------------------------------------------------------------------------
________________
३१२
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड
+++++++++++++++++++++++++++on+HummHHHHHinrn+ne+------------
तथा च न्याय कन्दल्यां श्रीधर भट्ट नोक्तं
"सर्वगतत्वेऽप्यात्मनो देह प्रदेशे ज्ञातृत्वम्, नान्यत्र ।
शरीरस्योपमोगायतनत्वात् अन्यथा तस्य वैधादिति ॥" तथा चात्मनो बुद्ध यादयोगुणाः शरीरमेवोपलभ्यन्ते । अतो गुणिनापि (आत्मना) तत्र भाष्यम् । यथा अन्ययोग व्यवच्छेद द्वात्रिंशिकायामुक्तं हेमचन्द्राचार्येण यत्
“यत्रव यो दृष्टगुणः स तत्र कुम्भादिवग्निष्प्रतिपक्षमेतद् ।
तथापि बेहाद् बहिरात्मतत्त्वमत्तत्ववादोपहता पठन्ति ॥" यथा कुम्भादेयंत्रव देशे रूपादयो गुणा उपलभ्यन्ते, तत्रैव तस्यास्तित्वं प्रतीयते, नान्यत्र । एवमात्मनोऽपि गुणाश्चैतन्या द्योदेहे एव दृश्यन्ते न बहिः।
अतस्तनुपरिमाण एवाङ्गीकर्तव्यो न व्यापकः । चेतनत्वात्, यत्तुव्यापकं, न तत् चेतनम्-पथा व्योम चेतनश्चात्मा तस्मात् न व्यापकः । अव्यापकत्वे चास्य तत्रवोपलभ्यमानगुणत्वेन कायप्रमाणता सिद्धा भवति ।
आर्हतमते समुद्घाताख्या क्रिया वर्तते । सा चाल्पाधिककर्म पुद्गल परमाणूनां तुल्यीकरणाथ क्रियते । अतोऽष्टसमयसाध्य केवलि समुद्घातदशायां चतुर्दश रज्वात्मक [त्रिखंडलोक ब्रह्मांडात्मक], व्यापित्वेनात्मनः कथंचित् सर्वव्यापकत्वमाहत स्वीक्रियते । सा च क्रिया कादाचित्कीति न तेन व्यभिचारः ।
प्रतिक्षेत्रं विभिन्न-मित्यनेन विशेषणेनात्मनः शरीरवाच्छिन्नत्वस्य विचारः कृतः। अधुना दृश्यमानानां शरीराणां संख्या बाहुल्यादात्मनोऽपि संख्या बाहुल्यमङ्गीकरणीयम् यत्र-यत्र सक्रियं शरीरं, तत्र-तत्र आत्मा यथा नृपश्वादीनाम् । अनन्तात्मवादिनो जिनानुयायिनः प्रतिक्षेत्र प्रतिशरीरं विभिन्न-विभिन्नात्मनोऽस्तित्वमङ्गीकुर्वन्ति ।
___ "एग सरीरे एगो जोवो, जेसि तु ते य पत्ते या" प्रत्येक जीवानां शरीरे एक एवात्मा तिष्ठति । प्रतिशरीरमात्मनो भिन्नत्वात्, अनन्तात्माहतदर्शने दृश्यते । ते च प्रत्यक्ष सिद्धाः । शरीरमाश्रित्य “इन्द्रिय व्यवहारानुसारेण जीवानां बहवो भेदोपभेदा जैन जीवविज्ञाने दर्शिता।" श्रीमद् मध्वाचार्येण सर्वदर्शनसंग्रहे सप्ततितमे पृष्ठे समीचीनमुल्लेखितम् । जिज्ञासुभिर्द्रष्टव्यम् ।
___ सक्रिये देहे चेतनाया अनुमानानुभूतित्वात् । सर्वेषु देहेषु आत्मनः स्वतन्त्रास्तित्वमङ्गीकरणीयम् । अत एकेतरदेहभिन्नसिद्ध रनेकात्मनोऽपि सिद्ध यति । तथा चैक आत्मा जलेन्दुबिम्बवदुपाधिभेदात् नानारूपे प्रतिभासते, इत्यवतमतेप्यापत्तिरागमिष्यति । सर्वेषु प्रतिबिम्बेषु सुख-दुःखादीनां समानरूपता ।
तथा चाऽगमेतर प्रमाणानामप्यभावत्वेन प्रत्यक्षप्रमाणेन व्यवहारसिद्धा बहवः पदार्था सन्ति । ते च स्वीकारार्हाः। अनेन चाद्वै तस्य सत्ताऽपि स्थातु नार्हति ।
पौद्गलिकादृष्ट्वानिति-विशेषणं नास्तिकादिमतं निरसितु दत्तम् । नास्तिकमतवादनश्चार्वाका अदृष्टं नाङ्गीकुर्वन्ति, अदृष्टस्य प्रत्यक्षाभावादित्युच्यते। चेद् स्वपितामहः प्रपितामहादिष्वभावस्वीकर्तव्या, दीर्घकाले जातानां चक्षुगोचराभावात् । तेषामभावे भवतोऽप्यभावो भविष्यति, पितुरभावे पुत्राभावः।
तथा च 'अदृष्ट सिद्ध्यर्थ' अदृष्टेतरकारणत्वेनाङ्गीक्रियते चेद्, अनवस्थादोषागमो भविष्यति ।
“पौद्गलिका दृष्टवान्" इत्यतः पुद्गलघटित कर्म परतन्त्रोऽर्थोऽस्ति । नैयायिकानां मते, अदृष्टेन ये धर्माधर्माः स्वीक्रियन्ते तेषामप्यत्र पौद्गलिकत्वेन विशिष्टा विचारा भविष्यन्ति । पुद्गला:-इति=पूरण-गलन स्वभावयुक्ताः परमाणवो ये पौद्गलिकास्तेषां पुण्यपापानां (धर्माधर्माणां) यः कर्ता स एवात्मा । यथा शास्त्रवार्तासमुच्चये हरिभद्रसूरिचरणलिखितं यत्
"यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च ।
संसर्ता परिनिर्वाता, सह्यात्मा नान्यलक्षणः ॥" पुद्गलघटितकर्माणां यः कर्ता, कर्मणो, भेदोपभेदानां यो बन्धकस्तथा च तेषां पुण्यपापात्मक शुभाशुभकर्मणां विपाकानां यो भोक्ता–अनुमविता स एवात्मा । पौद्गलिकं चेदमः-आत्मनः पारतन्त्र्यनिमित्तत्वात् निगडादिवत् । क्रोधे राग-द्वेषाद्यात्म परिणामरूपाणां पारतन्त्र्यस्वभावत्वात्, तन्निमित्तभूतस्य तु कार्मणः पौद्गलिकत्वात् ।
पूर्वकर्म विपाकवशगो हि प्राणी रागद्वेषादिना प्राणव्यपरोपणादि हिंसाकार्याणि कुर्वाणः कर्मणा बध्यते ।
Page #6
--------------------------------------------------------------------------
________________ भारतीय दर्शन में आत्म-मीमांसा 313 "कायवाङ मन कर्मयोगः" सकषायत्वाज्जीवः कर्मणोयोग्यान् पुद्गलनादत्ते "शुभः पुण्यस्य" "अशुभः पापस्य" इत्यादीनि प्रमाणानि प्रसिद्धान्येव / तथा च वृद्धशरीरं प्रति तरुणशरीरं कारणम् / तारुण्यं प्रति च बाल्यशरीरं बाल्यशरीरं, प्रति गर्भात्मकं शरीरं कारणं भविष्यति / तदनन्तरं तद् गर्मरूपं शरीरं प्रति किं कारण रूपं भवितुमर्हति ? गर्भरूपं शरीरं प्रति पूर्व जन्मनः कार्मणशरीरमेव कारणं भवति, नेतरत् / इदमेव कार्मणशरीरं, पौद्गलिक, सूक्ष्मरूपं च तदेवादृष्टनिर्मितम्, जैनमतेऽदृष्टस्वीकारे परलोक पुनर्जन्मादीनामपि स्वीकारो भविष्यत्येव / पौद्गलिकमदृष्टं मूर्तम् जडत्वात् / मूर्तकर्मणा अमूर्तात्मा कथं बध्यते ? अनुग्रहोपघातादिकं च कथं सम्भवति ? यथा अमूर्ते आकाशे मूर्तचन्दनादीनां विलेपनेनानुग्रहस्तथा च खङ्गादिप्रहारेणोपघातादिकमपि न सम्भवति / तत्र भवता मयं पक्षोऽपि स्वमतं साधयितु न समर्थः / यतो मूर्त ब्राह्मीमदिरा मदादीनां सेवनेनाऽमूर्त ज्ञानस्यानुग्रहोपघातादिकं प्रत्यक्ष अनुभूयते / स्याद्वादमते-आत्मा एकान्तामूर्तोऽपि नास्ति यतोऽनादि कर्म सन्तत्या स परिणामान्तरं गतः / यथोऽग्निनासाकमयपिण्डस्य संयोगः क्षीरनीरवदात्मकर्मणो संयोगेन वात्मापि तद्वत् प्रतिभासते; यथा दुग्धे जलं दुग्धवदेव भासते। अतो मूर्त कर्मणासाकं कथंचिदभिन्नत्वात् (संसारावस्थायाम्) आत्मापि कथंचित् मूर्तत्वेन प्रतिभासते / अन्यथाऽकाश आपत्तिरागमिष्यति / अतः सर्वथाऽमूर्तत्वादाकाशस्योपरि मूर्ता नामनुग्रहश्चोपग्रहो नास्ति / कथंचित् मूर्तामूर्तत्वादेवाऽत्मनि मूर्तकर्मणोऽनुग्रहश्चोपग्रहः सम्भवतीत्यार्हते पौद्गलिका दृष्टत्वमङ्गीकृतम् / यथा चागम प्रमाणम्जीवो अणाइ अणिधणो अविणासी धुओ, निच्चं -इति भगवत्यागमे / जीवात्मानः कालापेक्षयाऽनाद्यनन्ताः, अर्थात् यस्योत्पत्ति शश्च नास्ति, स एव जीवः / अनुत्पन्नाः पदार्था अनादिसिद्धाः / अनिधन:----निधनं मृत्युः, यस्य मृत्युः (अयः) नास्ति सोऽनिधनः / मृत्यु धर्मो देहस्य न त्वात्मनः / देहात्मनो वियोग एव मृत्युरित्युच्यते / यस्योस्पत्तिः तस्यैव नाशः गीतायामापि "जातस्य ध्र वो मृत्यु" रित्युक्तम् / जन्म ग्रहणे देहोत्पत्तिर्भवति, अतोऽस्यैव क्षयः मृत्यु भविष्यति / अविनाशी-आत्मा अविनाशी वर्तते / केनाप्याघात प्रत्याघातेनास्य नाशो नैव भविष्यति / अग्निना न दह्यते, न च वज्रण हन्यते, न च पर्वतेभ्यो भिद्यते, छुरिकया न च छिद्यते / अतोऽछेद्या-काट्यादाह्याभेद्यादि स्वभाववानात्मा जिनमते / अक्षयः-सर्वदा सर्वस्मिन् कदापि यस्य क्षयोनास्ति स एवात्मा। "ध्र वो नित्यम्” जह पौद्गलिका: पदार्थाः क्षणिका नाश स्वभावाश्च सन्ति / एक आत्मैव नित्यः / तथा चोत्पादव्ययध्रौव्य स्वभावाद्रव्याः। द्रव्यरूपेणात्मा 'ध्र वो नित्यः।' गुणापेक्षयोत्पन्न स्वभावी तथा च पर्यायदृष्ट्या व्ययःविनाशस्वभावी आत्मा, आर्हत दर्शने / नरदेवतिर्यञ्चनारकादिषु आत्मा जन्म धारयति सा स्थितिः पर्यायरूपोच्यते / आत्मतत्त्व स्वीकारे पुनर्जन्म सिद्धिरपि भविष्यति / 'पुनर्जन्मे' ति शब्दे पुनः जन्म च इति द्वौ शब्दौ / जन्मनि मृत्योरनन्तरमग्निसंस्कारे देहस्य विलयो जात / अतः यद्यात्मा नाङ्गीक्रियते चेत् पुनः चेतनागमनं नावलोक्यते। अत आत्मन एव पुनर्जन्माङ्गीकरणीयम् / आधुनिक विज्ञानस्य प्रयोगशालायामपि 'क्रायोबायोलोजि' इत्याख्यायां नवीनायां पद्धत्यां मृत शरीरे चेतनापूर्ते प्रयत्नानि प्रचलन्ति, परमेतन्न-भूतं न भविष्यति / तथा चाहतरात्मनः संकोचविकासशीलत्वं गुणत्वेन स्वीक्रियते / यथा विस्तृते कक्षे प्रदीपस्य प्रदेशा-विस्तारण तिष्ठन्ति सङ्क चिते लघुकक्षे तस्यैव दीपस्य प्रदेशास्तस्मिन् लघुक्षेत्रे तिष्ठन्ति, तथैवात्मनि संकुचितत्वं विस्तृतत्वं चास्ति / अतः कुञ्जरसदृशे दीर्घकाये य आत्मा तिष्ठति स एवात्मा जन्मान्तरे कीटिकामक्षिकादीनां शरीरेऽपि स्थातु शक्नोति / इत्यात्म-मीमांसा भारतीये दर्शने सन्दर्भ स्थल१ जीवाजीवा य बंधो य, पुण्णं पावासवो तहा। संवरो निज्जरा मोक्खो, संते ए तहिया नव ।।-उत्तराध्ययन 28114 2 गुणपर्यायवद् द्रव्यम् / . नामप्याता