________________
G
. ३०८
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्य खण्ड
भारतीय दर्शन में प्रात्म-मीमांसा
* श्री अरुणविजयो मुनि
जगतीतले बह्वो धर्मा-दर्शनानि च सन्ति । विश्वदर्शनेषु भारतीयदर्शनान्यग्रिमस्थानारूढानि सन्ति । दर्शनक्षेत्र दृष्टादृष्ट-सर्वेषां पदार्थानां तलस्पर्शिज्ञानमुपालम्भते । सर्वदर्शने जैनदर्शनमपि स्वतंत्र प्राचीनं च परिगण्यते । अस्य प्ररूपका उपदेष्टार तीर्थकरा आर्हताः । अतोऽमुमार्हत दर्शनमप्युच्यते । आईतार तीर्थंकरा आदिनाथमहावीरस्वामि भगवत् सदृशाः सर्वज्ञाः सर्वदशिन एव भवन्ति ।
___ जैनदर्शनेप्यात्म-परमात्म, लोकालोकात्परलोककर्म-धर्मादिदृष्टादृष्टप्रभृतीनां सर्वेषां पदार्थानां विचारविषये सिद्धान्ताश्च दृश्यन्ते।
आस्तिकदर्शनानामुहापोहयोः केन्द्रस्थानं प्रायेण "आत्मा" अस्ति । प्रत्यक्षाभावातात्मविषये भिन्न-भिन्न दर्शनेषु भिन्ना-भिन्ना विचारधाराः प्रचलन्ति । दर्शनेतरैः साकं जैनदर्शनस्यात्मविषयकसिद्धान्तानां प्रस्तुते प्रबन्धे विमर्शः क्रियते ।
आत्मज्ञानेनैवात्मप्रतीतिर्मविष्यति। आत्मज्ञानमेव मोक्षं प्रति कारणमस्ति । तच्चानुमानादि प्रमाणे व भविष्यति । सर्वज्ञोक्तागमादि शास्त्राणामालम्बनमेव प्रधानाधारो वर्तते । अत अर्हत सर्वज्ञोक्तागमाधारमवलम्ब्य तेषां वचनानुसारेण सिद्धान्तस्तुतिपूर्वकं शब्दकुसुमाञ्जलि भिजिनार्चनं प्रस्तुते प्रबन्धे क्रियते ।
भगवतार्हता नवतत्त्वानि प्रतिपादितानि । तद्यथा--(१) जीवः (२) अजीवः (३) पुण्यम् (४) पापम् (५) आश्रवः (६) संवरः (७) निर्जरा (८) बंधः () मोक्षश्च । एतेषु पदार्थेषु जीवाजीवौ पदाथों द्वावेव मूलतत्त्वे । अन्यानि तत्त्वानि अनयोरेव संयोग-वियोगजन्यावस्थाविशेष वाचान्येव । हितेमतेऽनन्तधर्मात्मकं द्रव्यम् । तत् च गुणपर्यायात्मकम् , उत्पादव्यय ध्रौव्यात्मकस्वभावम् । "उप्पन्नेई वा विगमेई वा धुवेई वा" इतित्रिपदी भगवतोपदिष्टा।
ऐन्द्रियप्रत्यक्षदृष्ट वस्त्वस्तित्ववादिश्चार्वाका अदृष्टं नाङ्गीकुर्वन्ति, प्रत्यक्षगोचराभावात् । चैतन्यरहिता अजीवाः ते च प्रत्यक्षगोचराः । प्रत्यक्ष प्रियश्चार्वाकाश्चेतनायुक्तमात्मानं न स्वीकुर्वन्ति, अदृष्टत्वात् । ये ये दृष्टास्तेषां सत्तात्मकमं तैरङ्गीक्रियते, यथा घटपटादिकम् । चेतना-शक्तिर्भूतेष्वेव दृश्यते । अतःदेहाद् भिन्न आत्मनामको कश्चन पदार्थ एव नास्तीति भूतचैतन्यवादिनां-देहात्मवादिनामेव मतम् । ते च वदन्ति पृथ्वी-जलाग्नि-वाय्वादिभूतचतुष्टयेभ्यो विशिष्टरासायनिक संमिश्रणेभ्यश्चेतनाशक्तिरुद्भवति । शरीरवत् स एवात्मा, नान्यः ।
यथा मध्वादि पदार्थानां बहुयातयामत्वेन मदिरा भवति, तस्याञ्च मदशक्तिरागच्छति । तथैव भूतचतुष्टयानां विशिष्टसंयोगेन चैतन्यशक्तिरप्युद्भवति । अतश्चैतन्यं देहधर्म एव न चात्मनः । अत एव जीवनप्रवाहो गर्भकालादारभ्य मृत्युपर्यन्तमेवास्ति । अन्ते समये शरीरयन्त्रे विकृत्यागमने चैतन्यशक्ति शो भवति स एव मृत्युः ।
ऐतिहासिक्यादृष्या भूतचैतन्यवादः प्राचीनतमोऽस्ति । उपनिषदि, जैनागमे, बौद्धपिटकेषु चास्योल्लेखः पूर्वपक्ष रूपेण निर्दिष्टः । जयन्तसदृशः समर्थ नैयायिकरप्यस्य चार्वाकरूपेण निर्देशो कृतः । एतत् सदृशं 'तज्जीवतत्शरीरवादस्योल्लेखः सूत्रकृताङ्ग, विशेषावश्यक भाष्ये तथैव च मज्झिमनिकायेप्युपलभ्यते ।
भूतानां जडत्वन्तु चार्वाकरप्यङ्गीक्रियते । जडेष्वेव चैतन्योत्पत्तिरिति तेषां मतम् । परमेतत् तर्कप्रमाणेन परीक्षिते न सिद्धान्तगामि भविष्यति । यतो हि भूत चैतन्ययोः कार्यकारणभाव इति पक्षमवलम्ब्य विचार्यते कारणगत धर्मवैचित्रकायें कथमागमिष्यति ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org