Book Title: Bharatiya Darshan me Atma mimansa
Author(s): Arunvijaymuni
Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf

View full book text
Previous | Next

Page 4
________________ भारतीय दर्शन में आत्म-मीमांसा ३११ . ०० ____ आह च पतञ्जलि:-"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन् न तदात्मापि तदात्मक इव प्रतिभासते" इति । चिच्छक्तिसन्निधानाच्चाचेतनापि बुद्धिश्चेतनावतीवावभासते । वादमहार्णवोप्याह-"बुद्धिदर्पणसंक्रान्तमर्थ प्रतिबिम्बकं द्वितीयदर्पणकल्पे पुस्यध्यारोहति । तदेव भोक्तृत्वमस्य न त्वात्मनो विकारापतिरिति पूर्व पक्षः।" अथ-पुरुषोऽगुणोऽपरिणामी चेद् कथमस्य मोक्षोभविष्यति ? 'मुच्' धातोर्बन्धन विश्लेषार्थत्वात् बन्धस्यैव मोक्षो-भविष्यति । अपरिणाम्यात्मनि वासनाक्लेशकर्मणा संबंधेन बन्धस्योत्पत्तिरेव न संभवति अत एवाऽत्मनो निष्क्रियत्वे परलोकः संसारादिकमपि न भविष्यति । सत्त्वेऽपि चैतन्य शक्तिः सा विषय परिच्छेदशून्येति परस्परं विरुद्ध वचः । 'चिति संज्ञाने' इति ज्ञानार्थे 'चित्' धातु प्रयुक्तः । चित्यते अनयेति चैतन्यमस्ति । यदीयं शक्तिः स्वपरप्रकाशिका नास्ति चेद् कथं सा चेतनाशक्तिरुच्यते, यथा घटः । चेतनाशक्तेः प्रतिबिम्ब बुद्धवागन्तु नार्हति, मूर्तधर्मत्वात् । मूर्तपदार्था एवं प्रतिबिम्बन्ते। आत्मगतसुखदुःखानामनुभवो निराधार एव, आत्मनासाकं तेषां सम्बन्धाभावात् । यदि सुखदुःखयो ज्ञानं बुद्धिजन्यमुच्यते चेद् तदप्ययुक्तम् । सांख्यमते बुद्ध जडत्वात् । सुखदुःखादीनामनुभाविका सत्वेपि बुद्ध जडत्वकल्पने विरोधाभासो भविष्यति । बुद्ध जडत्वकल्पने जयपदार्थानां ज्ञानाभावो भविष्यति । यद्यात्माऽकर्तास्ति चेद् भोक्ता-अनुभवितापि कथं भवेत् ? दृष्ट व्यवहारेऽपि कर्ताएव सफल भोक्ता भवति । अन्यस्य क्रिययाऽन्यस्य तृप्तिः कथं भवेत् ? यथा चैत्रस्य भोजनेन मैत्रस्य तृप्तिः, एतादृशो व्यवहारो नावलोक्यते । भोक्तृत्व कर्तृत्वे कार्यकारणभाव सम्बन्धो दृश्यते । भोक्तृत्वं कार्यान्तरगतं, कर्तृत्वं च कारणान्तर्गतम् । यथा घटकार्यसत्वे मृत्तिकादिकारणमस्त्येव, तथैव भोक्तृत्वानुगतं कर्तृत्वम् । भोवर्तृत्वाङ्गीकृते कर्तृत्वमवश्यमङ्गीकरणीयमेव । ___'अचेतनापि बुद्धिश्चिच्छक्ति सानिध्याच्चेतनावतीवावभासते इत्यप्ययुक्तं प्रतिभाति । यथा यस्मिन्दर्पणे प्रतिबिम्बयते तस्मिन्दर्पणेऽपि चेतनापत्तिरापतिष्यति । तथा च चैतन्याचैतन्ययोरपरावर्तिस्वभावत्वेन पुरन्दरेणाप्यन्यथा कर्तृमशक्यत्वात् । किञ्चाऽचेतनापि चेतनावतीव प्रतिभासत इति 'इव' शब्देनारोपो ध्वन्यते । न चारोपोऽर्थक्रियासमर्थः । यथाऽतिकोपनत्वादिना समारोपिताग्नित्वो माणवक: कदाचिदपि मुख्याग्नि साध्यां दाहपाकाद्यर्थक्रियां कर्तुं न समर्थ इति चिच्छक्तरेव विषयावसायो घटते न जडरूपाया बुद्ध रिति । __ अत एव धर्माद्यष्टरूपताप्ति तस्य वाङ, मात्रमेव । धर्मादीनामात्मधर्मत्वात् । अत एव चाहङ्कारोपि न बुद्धि जन्यो युज्यते, तस्याभिमानात्मकत्वेनात्मधर्मस्याचेनादुत्पादायोगात् । इत्यादि विचारानुसारेण कर्तृत्वं साक्षाद् भोक्तृत्वं च युक्तिसङ्गतं दृश्यते । स्वदेह परिमाणः स्वदेह परिमाण-इत्यनेनापि नैयायिक वैशेषिक सांख्यादि-परिकल्पितमात्मनः सर्वगतत्वं निषिध्यते । नैयायिक-वैशेषिक-सांख्य प्रभृतिभिर्दशनैरात्मनो विभुत्वं सर्वगतत्वमङ्गीक्रियते। अद्वैतवादिनोऽप्यात्मान एकत्वं विभुत्वं चाङ्गीकुर्वन्ति । देहाद् बहिरप्यात्मा सर्वत्र वर्तते सर्वव्यापकत्वादिति तेषां मतम् । परं यद्यात्मनः सर्वव्यापकत्वमङ्गीक्रियते चेदात्मेतर पदार्थानां सत्तं व कथं संभवति । तथा च एकात्मनि-अहं सुखी, अहं दुःखी, अहं ज्ञानी इत्याकारके प्रत्यये जाते सर्वात्मनि समानरूपेण सुख-दुःखादि ज्ञानं भविष्यति, सर्वव्यापकत्वात् । एकेन भोजनेकृतेप्यन्येषां सर्वेषां क्षुत्तृप्तिरपेक्ष्यते । परं लोक-व्यवहारेऽपि तथा नावलोक्यते । तथा च सुख-दुःखादीनां संवेदनापि सदृशाः समकालीना च भवतु, आत्मनः सर्वव्यापकत्वात् । यद्यात्मा सर्वव्यस्ति चेद्-एक समयावच्छेद एव नृदेवतिर्यङ नारकगतीनां भावाभावानां सुख-दुःखादि संवेदनानां ज्ञाता भविष्यति । परं सर्वासु गतिषु सुख-दुःखादीनां वैषम्यमनुभूयते । एकस्य बन्ध-मोक्ष प्रसंगे सर्वेषां तथैव भवतु । न च तथा दृश्यते । सर्वे जीवा: स्वस्वकर्मविपाकानुसारेण बन्ध मोक्ष प्राप्नुवन्ति । ___ इत्थं देहाबहिः सर्वव्याप्यात्मवादे महत्यापत्तिरापतिष्यति । तथा च देहबाह्यात्मवाद आत्माकाशयोः को भेदो भविष्यति ? व्योमवदात्मविभुवाद आत्मनि क्रियापि कथं सम्भविष्यति ? अनेन च संसारास्तित्वमेव गच्छति । तथा चात्मविभुवाद ईश्वर मतवादिन आत्मनि जगत्कर्तृत्वं कथं न स्वीकुवंन्ति ? उभयव्यापकत्वात् । यद्यात्मैवेश्वर ईश्वरैवात्मेत्युच्चते चेदात्मनि कर्तृत्वापत्तिरापतिष्यति । कर्तृत्वं तु समान स्वरूपं भविष्यति, अतः पापनरकादिवद भद्ररूपमीश्वरात्मनो भवेत् । भावार्थस्त्वयमात्मा सर्वगतो न भवति, सर्वत्र तद्गुणानुपलब्धः । यो यः सर्वत्रानुपलभ्यमानगुणः स सर्वगतो न भवति, यथा घटः तथाचाऽयम्, तस्मात् तथा व्यतिरेके व्योमादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6