Book Title: Bhaktamar Stotra Author(s): Publisher: ZZZ Unknown View full book textPage 6
________________ स्वर्गापवर्ग-गम-मार्ग-विमार्गणेष्टः सद्धर्म-तत्व-कथनैक-पटुस्त्रिलोक्याः । दिव्यःध्वनिर्भवति ते विशदार्थ-सर्वभाषा-स्वभाव-परिणाम-गुणैःप्रायोज्यः|35 उन्निद्र-हेम-नव-पंकज-पुञ्ज-कान्ती पर्युल्लसन्नख-मयूख-शिखाभिरामौ| पादौ पदानि तव यत्र जिनेन्द्र! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति|36| इत्थं यथा तव विभूतिरभूज्जिनेन्द्र धर्मोपदेशन-विधौ-न तथा परस्य यादृक्प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रह-गणस्य विकाशिनोऽपि371 शच्योतन्मदाविल-विलोल-कपोल-मूलमत-भ्रमद्-भ्रमर-नाद-विवृद्ध-कोपम्। एरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम|38| भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्तमुक्ता-फल-प्रकर-भूषित-भूमि-भागः। बद्ध-क्रमः क्रम-गतं हरिणाधिsपोपि नाक्रामति क्रम-युगाचल-संश्रितं ते 39| कल्पान्त-काल-पवनोद्धत-वह्रि-कल्पं दावानलं ज्वलितमुज्ज्वमुत्स्फुलिगम् विश्व जिघित्सुमिव संमुखमापतन्तं त्वन्नाम-कीर्तन-जलं शमयत्यशेषम 40| रक्तेक्षणं समद-कोकिल-कण्ठ-नीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम आक्रामति क्रम-युगेण निरस्त-शखंस्त्वन्नाम-नाग-दमनी हृदि यस्य पुंसः|41| वल्गत्तुरंग-गज-गर्जित-भीमनादमाजौ बलं बलवतामपिभूपतीनाम् उद्यद्दिवाकर-मयूख-शिखापविद्धं त्वत्कीर्तनात्तम इवाशु भिदामुपैति 42| कुन्ताग्र-भिन्न-गज-शोणित-वारिवाहवेगावतार - तरणातुर - योध - भीमेPage Navigation
1 ... 4 5 6 7