Book Title: Aspect of Jainology Part 2 Pandita Bechardas Doshi
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

View full book text
Previous | Next

Page 494
________________ Abhinavagupta's Ideas in Locana on the Nature of Beauty of Kavya 77 5. काव्यवाक्येभ्यो हि नयनानयनाथुपयोगिनी प्रतीतिरभ्यर्थ्यते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा वाभिप्रायनिष्ठैव नाभिप्रेतवस्तुपर्यवसाना । - Locana, p. 442 शब्दविशेषाणां चेति । अन्यत्रेति । भामहविवरणे। विभागेनेति । स्रक्चन्दनादयः शब्दाः शृङ्गारे चारवो वीभत्से त्वचारण इति रसकृत एव विभागः। रसं प्रति च शब्दस्य व्यञ्जकत्वमेवेत्युक्त प्राक् । -Locana, p. 358 """किन्तु शब्दसमय॑माणहृदयसंवादसुन्दरविभावानुभावसमुचित प्राग्विनिविष्टरत्यादिवासनानुरागसुकुमारस्वसंविदानन्दचर्वणाव्यापाररसनीयरूपो रसः, स काव्यव्यापारैकगोचरो रसध्वनिरिति, स च ध्वनिरेवेति, स एव मुख्यतयात्मेति । -Locana, pp. 49-50 8. भाव-ग्रहणेन व्यभिचारिणोऽपि चळमाणस्य तावन्मात्र विश्रान्तावपि स्थायिचर्वणापर्यवसानोचितरसप्रतिष्ठामनवाप्यापि प्राणत्वं भवतीत्युक्तम् ।। -Locana, p. 90 9. क्षुण्णं हि वस्तु लोकप्रसिद्धयाद्भुतमपि नाश्चर्यकारि भवति । -Dhvanyāloka, pp. 534-35. क्षुण्ण होति । पुनः पुनर्वर्णननिरूपणादिना यत्पिष्टपिष्टत्वादतिनिभिन्नस्वरूपमित्यर्थः । --Locana, p. 534 10. तथाजातीयानामिति । चारुत्वातिशयवतामित्यर्थः। सुलक्षिता इति यत्किलैषां तद्विनिर्भुक्तं रूपं न तत्काव्येऽभ्यर्थनीयम् । उपमा हि 'यथा गौस्तथा गवयः' इति । रूपकं 'खलेवासी यूप' इति ।""दीपकं 'गामश्वम्' इति । ससन्देहः 'स्थाणुर्वा स्यात्' इति । अपह्नतिः 'नेदं रजतम्' इति । पर्यायोक्तं 'पीनो दिवा नात्ति' इति । 'अतिशयोक्तिः 'समुद्रः कुण्डिका', 'विन्ध्यो वर्धितवान'कंवागृह्णात्' इति । एवमन्यत् । -Locana, pp. 472-473 रतौ हि समस्त-देव-तिर्यङ्-नरा दि-जातिष्वविच्छिन्नैव वासनास्त इति न कश्चित्तत्र तादृग्यो न हृदयसंवादमयः, यत्तेरपि हि तच्चमत्कारोऽस्त्येव । -Locana, p. 205. एतदुक्त भवति-उपमया यद्यपि वाच्योऽर्थोऽलङ्क्रियते, तथापि तस्य तदेवालङ्करणं यद् व्यङ्ग्यार्थाभिव्यञ्जनसामर्थ्याधानमिति वस्तुतो ध्वन्यात्मैवालङ्कार्यः। कटक-केयूरादिभिरपि हि शरीरसमवायिभिश्चेतन आत्मैव तत्तच्चित्त वृत्तिविशेषौचित्यसूचनात्मतयालङ्क्रियते । -Locana, p. 197 13. तथाहि--अचेतनं शव-शरीरं कुण्डलाद्युपेतमपि न भाति, अलङ कार्यस्याभावात् । यति-शरीरं कटकादि-युक्तं हास्यावहं भवति, अलङ्कार्यस्यानौचित्यात् । न हि देहस्य किञ्चिदनौचित्यमिति वस्तुत आत्मैवालकार्यः, अहमलकृत इत्यभिमानात् । -Locana, pp. 197-198 14. काव्य-विषये च व्यङ्ग्यप्रतीतीनां सत्यासत्यनिरूपणस्याप्रयोजकत्वमेवेति तत्र प्रमाणान्तरव्यापार परीक्षोपहासायैव संपद्यते । -Dhvanyaloka, p. 455 अप्रयोजकत्वमिति । न हि तेषां वाक्यानामग्निष्टोमादिवाक्यवत् सत्यार्थप्रतिपादनद्वारेण प्रवर्तकत्वाय प्रामाण्यमन्विष्यते, प्रीतिमात्रपर्यवसायित्वात् । प्रीतेरेव चालौकिकचमत्काररूपाया व्युत्पत्त्यङ्गत्वात् । एतच्चोक्तं वितत्य प्राक् । उपहासाय वेति । नायं सहृदयः केवलं शष्कतर्कोपक्रमकर्कशहृदयः प्रतीति परामष्टुं नालमित्येष उपहासः। -Locana, p. 455 11. 12. 15. अगर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558