Book Title: Apbhramsa of Hemchandracharya
Author(s): Hemchandracharya, Kantilal Baldevram Vyas, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad
________________
प्राक्तनैतिह्यसाहित्यग्रन्थरत्नपरीक्षणे । तत्समुद्धारकरणे वयो येनात्र यापितम् ॥ १ मेधया यस्य दीप्तास्ते जैनागमाः सुशोधिताः ।। यतो देशान्तरेष्वासीद् यदीया कीर्तिरुत्तमा ।। २ मूर्तिमान् जिनधर्मो यः सर्वधर्मसमन्वयी । अध्येतृणां च विदुषां सर्वसाहाय्यतत्परः ।। ३ तं गुरु पुण्यविजयं 'जैनागमप्रभाकरम्' । प्रणम्य परया भक्त्या ग्रन्थोऽयमर्प्यते मया ॥ ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org