Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 9
________________ ॥३॥ अस्या विधाने भूरिसूरिसूराः श्रीजिनप्रभसूरयः सहायतामातेनुः । इयं च सुरभिस्याद्वादमञ्जरी महामोहनीयकर्मविद्धमर्मचमधर्माऽधर्मविवेकाकुशलसंततसतमसतामसैः कणादा-18 क्षपाद-वेदान्त-जैमिनि-तथागततनुजैविस्तीर्यमाणं नरककुम्भीपाकपरिणामं महामिथ्यात्वात्मदुर्गन्धमपसार्य जगत्कान्तानेकान्तवादसरससुवासं वितन्वाना विजयते । इमां च विशदयितुं पुस्तकचतुष्टयीं लब्धवन्तौ, तद्दातॄन् नामग्राहं निर्दिश्य तद्ऋणितां मन्यावहे । पुस्तकमेकं शास्त्रविशारदजैनाचार्यास्मद्गुरुश्रीविजयधर्मसूरीणां नाऽत्यशुद्धम् । पुस्तकद्वयं तु पंन्यासपदभूषितश्रीवीरविजयानां प्राचीनं शुद्धं च । पुस्तकमेकं तु यतिवर्याणां श्रीनेमिचन्द्राणां शुद्धम् । १ एते चाचार्याः प्रभावकप्रवरास्तार्थकल्पादिप्रन्धगुम्फकाश्च, तेषां समयश्च तैरेव निजनिर्मितायामजितशान्तिस्तववृत्तौ संदर्शित: संवद्विक्रमभूपतेः शर-ऋतू-दर्चिः-शशाङ्कमिते (१३६५) पौषस्याऽसितपक्षभाजि शनिना युक्ते द्वितीयातिथौ । श्रीमान् श्रीजिनसिंहसूरिसुगुरोः पादाब्जपुष्पंधयः पुर्या दाशरथेजिनप्रभगुरुर्जग्रन्थ टीकामिमाम् ॥ १ ॥ एतेन श्रीमल्लिषेण-जिनप्रभयोः स्पष्टमेव समानकालिकत्वम् । - Jain Education International For Private & Personal Use Only Munelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 224