Book Title: Anyayoga vyavaccheda dwatrnshika Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi Publisher: Chunilal Pannalal Mumbai View full book textPage 8
________________ काचातकाः षड्दर्शनीतार्किकतर्कतर्कणकर्कशा जञ्जपूकविवादिवादिघूकपूत्कारकारणचणा नागेन्द्रगच्छसागरसमुल्लासनसोमाः श्रीमल्लिषेणसूरयः कदा के विषयं भूषयांबभूवांसः ?, इत्यालोकनप्रवृत्तानां स्पष्टमेव लोकयति तद्विहितैतद्ग्रन्थप्रशस्तिः, तथाहि नागेन्द्रगच्छगोविन्दवक्षोऽलंकारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ॥६॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरिय मनुरविमितशाकाब्दे दीपमहसि शनौ ॥ ७ ॥ श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ ८ ॥ बिभ्राणे किल निर्जयाजिनतुलां श्रीहेमचन्द्रप्रभौ तदृब्धस्तुतिवृत्तिनिर्मितिमिषाद्भक्तिमया विस्तृता । निर्णेतुं गुण-दूषणे निजगिरां तन्नार्थये सजनान् तस्यास्तस्वमकृत्रिमं बहुमतिः सास्त्यत्र सम्यग् यतः ॥ ९ ॥ इमां च ते श्रीशाकाब्दे १२१४ वत्सरे, वैक्रमे तु १३४९ वर्षे श्रीवीरनिर्वाणपर्वणि शनिदिने निर्ममिवांसः । स एव च तेषां सत्तासमय इति स्फुटं पाठकहृदयमवगाहते। शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित्यवानुद्यत्तार्किकतककर्कशमतिः सिद्धान्तशुद्धान्तरः । श्रीधर्माऽभ्युदये कविः प्रविलसद्दादिगोत्रे पविस्तामेतामुदयप्रभोऽस्य गणमृद् वृत्ति व्यधात् कर्णिकाम् ॥ १३ ॥ सेयं पुरे धवल के तिलके धरित्र्यां मन्त्रीशपुण्यवशतो वसतौ वसाद्भः । वर्षे निभ्यतनयनेन्दुमिते (१२९९) वितेने श्लोकैः शिवोदधिशिवैः प्रमितेऽद्भुतश्रीः ॥ २१ ॥ ॥ २ ॥ Jain Education Internal For Private & Personal Use Only wwariyalhelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 224