SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ काचातकाः षड्दर्शनीतार्किकतर्कतर्कणकर्कशा जञ्जपूकविवादिवादिघूकपूत्कारकारणचणा नागेन्द्रगच्छसागरसमुल्लासनसोमाः श्रीमल्लिषेणसूरयः कदा के विषयं भूषयांबभूवांसः ?, इत्यालोकनप्रवृत्तानां स्पष्टमेव लोकयति तद्विहितैतद्ग्रन्थप्रशस्तिः, तथाहि नागेन्द्रगच्छगोविन्दवक्षोऽलंकारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ॥६॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । वृत्तिरिय मनुरविमितशाकाब्दे दीपमहसि शनौ ॥ ७ ॥ श्रीजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुत्तंसतु सतां वृत्तिः स्याद्वादमञ्जरी ॥ ८ ॥ बिभ्राणे किल निर्जयाजिनतुलां श्रीहेमचन्द्रप्रभौ तदृब्धस्तुतिवृत्तिनिर्मितिमिषाद्भक्तिमया विस्तृता । निर्णेतुं गुण-दूषणे निजगिरां तन्नार्थये सजनान् तस्यास्तस्वमकृत्रिमं बहुमतिः सास्त्यत्र सम्यग् यतः ॥ ९ ॥ इमां च ते श्रीशाकाब्दे १२१४ वत्सरे, वैक्रमे तु १३४९ वर्षे श्रीवीरनिर्वाणपर्वणि शनिदिने निर्ममिवांसः । स एव च तेषां सत्तासमय इति स्फुटं पाठकहृदयमवगाहते। शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित्यवानुद्यत्तार्किकतककर्कशमतिः सिद्धान्तशुद्धान्तरः । श्रीधर्माऽभ्युदये कविः प्रविलसद्दादिगोत्रे पविस्तामेतामुदयप्रभोऽस्य गणमृद् वृत्ति व्यधात् कर्णिकाम् ॥ १३ ॥ सेयं पुरे धवल के तिलके धरित्र्यां मन्त्रीशपुण्यवशतो वसतौ वसाद्भः । वर्षे निभ्यतनयनेन्दुमिते (१२९९) वितेने श्लोकैः शिवोदधिशिवैः प्रमितेऽद्भुतश्रीः ॥ २१ ॥ ॥ २ ॥ Jain Education Internal For Private & Personal Use Only wwariyalhelibrary.org
SR No.600050
Book TitleAnyayoga vyavaccheda dwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas T Seth, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy