________________
प्रस्तावना ।
अस्याश्च स्याद्वादमञ्जर्या मूलभूताया अन्ययोगव्यवच्छेदनामधेयाया भगवत्स्तुतेः स्रष्टारश्चातुर्वैद्यस्रष्टारो जनितजगदमन्तुजन्तुजाताभयजातयो जिनशासनभासनाद्भुतप्रभूतभूतप्रभावनाप्रभावस्मारितप्रभावकप्रभु जिन पतिमतिश्री आर्यवज्रस्वामिप्रभृतयस्त्रिलोकीलोकाविगीतगीतस्फीतकीर्तिस्फूर्तिततयो राजगुरवो योगिधुरंधरा जिनतुलां बिभ्राणाः प्रचण्डाखण्डपण्डामण्डनमण्डित पण्डितवावदूकवादिवदनबन्धनघनघना लोकोत्तरचरिताः कलिकालसर्वज्ञाः श्रीहेमचन्द्रप्रभुचरणाः ।
तेषां चात्राऽसंख्यावत्संख्यावत्पर्षत्सु प्रशस्यमानयशसां सकलक्षोण्यामाबालगोपालप्रसिद्धोदन्तत्वादेव 'ते च के ?' इति शङ्कोत्थानाऽभावात्, अस्यामेव ग्रन्थमालायां प्रकटयिष्यमाणतन्निर्मित- अभिधानचिन्तामणिप्रस्तावनायां प्रस्तोयमाणत्वाच्च नाऽनधिकमपि प्रस्तूयन्ते तेऽत्र ।
एतस्यास्तु स्याद्वादमञ्जर्या उद्गमयितारः श्रीउदेयप्रभप्रभुगुरुचरणचञ्चरीकाः श्रीहेमचन्द्रावर्ण्यगुण गुणचन्द्र१ इमे च उदयत्प्रभा उदयप्रभसूरयः आरम्भसिद्धि- धर्माभ्युदयमहाकाव्य - उपदेशमालाकर्णिकावृत्तिप्रभृतिमा धर्मन्यविधायकाः प्रतिवादिविधुविधुन्तुदाः सौवं सत्तासमयं स्वपरिचयं च स्वकृतकर्णिकावृत्तौ दर्शयामासिवांसः, तच्चेदम्—
श्रीमद्विजयसेनस्य सौमनस्यं न मन्यते । यद्वासिता धृताः कैर्न गुणाः शिष्याश्च मूर्धसु ? ॥
Jain Education Intional
For Private & Personal Use Only
0004
ainelibrary.org