Book Title: Anjanasundari Charitram
Author(s): Muktivimalgani
Publisher: Muktivimal Jain Granthmala

View full book text
Previous | Next

Page 18
________________ अअना० चरित्रम् (इन्द्रवज्रा) आध्मातकम्बुप्रथितस्वनेन, लोकत्रयी येन च पूरिताऽभूत् । येनाश्रितः पावनरेवताद्रिस्तीर्थकरो, नेमिरसौ श्रियेऽस्तु ॥ ३ ॥ पार्श्वप्रभुः पार्श्वश्रितांधिपद्मः, प्रोद्दामतेजाः प्रभुवर्द्धमानः । विश्वोपकारप्रथितप्रभावी, स्तां वः श्रिये नित्यमुभौ जिनेशौ ॥ ४ ॥ सा भारतीभाजितविश्ववामा, ज्ञानालया ज्ञानिमनोविलासा । वाचि स्थिता या कविकोविदानां, भूयाचरित्रे नितमां सहाया ॥५॥ पुण्येन यो लब्ध चरित्रभानुः, कर्माणि निम्नन्निव सञ्चकाशे। श्रीमद्यावैमलसद्गुरुः स, विश्वस्य भूत्यै भवतात्तपस्वी॥६॥ पंन्याससौभाग्यगुरुर्गुरुणां, तीर्थङ्कराणां गुरुवाचि दक्षः। ज्ञानादिसम्पद्विलसत्सुभाग्यः, स्तान्छेयसे वो महते महीयान् ॥ ७॥ ध्यात्वाईतः शान्तसमस्तकामान्, नत्वा गुरूणाक्रमवारिजानि । सत्यञ्जनायाश्चरितं पवित्रं, पंन्याससमुक्तिर्विमलो विधत्ते ॥८॥ यातः पदव्यां स्वलनकदाचिन्नुर्जायते मेऽपि तथा चेत्स्यात् । शोध्यं च तत्सरिभिरार्यवृत्तरार्याध्वनीना निखिला प्रवृत्तिः॥९॥ ऽणीयसी शेमुषिका मदीया सत्यञ्जनायाश्चरितं क्व चेदम् । परं तथापीह गुरुप्रसादाद्यास्यत्ययं भद्ररुचिविरेकम् ॥१०॥ शीलोत्तमासी रिपुकामनाशी, दिव्यच्छविर्यस्य करे विभाति । नो तस्य भीतिर्भुवनत्रयेऽपि प्रामोति देवेष्वपि पूज्यतां सः ॥ ११ ॥ चरित्रमञ्जनासत्याः, पूर्वोक्तरीतिना मया । शीलप्रस्तावके साधु रच्यतेऽखिलकामदम् ॥ १२ ॥ ॥ अथ चरित्रोपक्रमः॥ Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60