Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 340
________________ धर्मसङ्ग्रहणी परिशिष्ट - २ द्विषयादसावाकारोऽभ्युपगम्यते तथैव बाह्यादप्यर्थात्किन्नाभ्युपगम्यते ? उभयत्रापि विशेषाभावात् २४ Do ||६८५ ॥ अनाकारपक्षमधिकृत्याह अह उ अणागारं चिय विन्नाणं तहवि गाहगं तेसिं । अत्थस्सवि एवं चिय गाहगभावम्मि को दोसो ॥ ६८६ ॥ (अथ तु अनाकारमेव विज्ञानं तथापि ग्राहकं तेषाम् । अर्थस्यापि एवमेव ग्राहकभावे को दोष: ? ॥६८६॥ ) अथ, तुः पूरणे, विज्ञानमनाकारमेव न साकारं तथापि कुतश्चित् प्रतिनियतस्वभावविशेषात्तेषां ज्ञानान्तराणां ग्राहकमिति मन्येथाः ? अत्राह - ' अत्थस्स वी 'त्यादि । अर्थस्यापि ग्राह्यभावमापन्नस्य एवमेव - ज्ञानान्तरस्येव विषये विवक्षितज्ञानस्य ग्राहकभावे सति को दोषो ? नैव कश्चनेति भाव:, अभिहितयुक्तेरत्रापि समानत्वात् ॥६८६॥ तृतीयं पक्षमधिकृत्याह - सागारअणागारं तु विरोहा कह णु जुज्जती नाणं ? | भावेवि तदंतरगहणमो फुडं अत्थतुल्लं तु ॥ ६८७॥ (साकारानाकारं तु विरोधात्कथं नु युज्यते ज्ञानम् ? | भावेऽपि तदंतरग्रहणं स्फुटं अर्थतुल्यं तु ॥ ६८७ ॥ ) साकारानाकारं तु ज्ञानं कथं नु युज्यते ? नैव कथंचनेति भावः । कुत इत्याह-विरोधात्विरोधदोषात् । तथाहि-यदि साकारं कथमनाकारम् ? अथानाकारं कथं साकारमिति ? अस्तु वा यथाकथंचनापि तत्साकारानाकारं तथापि यत् तस्य तदन्तरग्रहणं 'मो' निपातः पूरणे, तत् स्फुटमर्थतुल्यमेव-अर्थग्रहणतुल्यमेव । तुरेवकारार्थः । अर्थस्याप्येवं ग्रहणमनिवार्यमिति भावः । उभयोरपि-ज्ञानान्तरार्थयोस्तत्त्वतस्तुल्ययोगक्षेमत्वात् ॥६८७|| तुरीयं पक्षं दूषयन्नाह - अणुभयरुवमभावो तब्भावे सव्वसुन्नतावत्ती । सा अणुहवसिद्धेणं विरुज्झती निययनाणेणं ॥ ६८८ ॥ अनुभयरूपमभावस्तद्भावे सर्वशून्यतापत्तिः । साऽनुभवसिद्धेन विरुध्यते निजकज्ञानेन ||६८८॥ ) अनुभयरूपं-न साकारं नाप्यनाकारमिति यदि विज्ञानमभ्युपगम्यते, ततः खरविषाणस्येव तस्याभावः प्राप्नोति । किं हि तत्सद्भवेद्यन्न साकारं नाप्यनाकारमिति ? ततः किमित्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366