________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
द्विषयादसावाकारोऽभ्युपगम्यते तथैव बाह्यादप्यर्थात्किन्नाभ्युपगम्यते ? उभयत्रापि विशेषाभावात्
२४ Do
||६८५ ॥
अनाकारपक्षमधिकृत्याह
अह उ अणागारं चिय विन्नाणं तहवि गाहगं तेसिं । अत्थस्सवि एवं चिय गाहगभावम्मि को दोसो ॥ ६८६ ॥
(अथ तु अनाकारमेव विज्ञानं तथापि ग्राहकं तेषाम् ।
अर्थस्यापि एवमेव ग्राहकभावे को दोष: ? ॥६८६॥ )
अथ, तुः पूरणे, विज्ञानमनाकारमेव न साकारं तथापि कुतश्चित् प्रतिनियतस्वभावविशेषात्तेषां ज्ञानान्तराणां ग्राहकमिति मन्येथाः ? अत्राह - ' अत्थस्स वी 'त्यादि । अर्थस्यापि ग्राह्यभावमापन्नस्य एवमेव - ज्ञानान्तरस्येव विषये विवक्षितज्ञानस्य ग्राहकभावे सति को दोषो ? नैव कश्चनेति भाव:, अभिहितयुक्तेरत्रापि समानत्वात् ॥६८६॥
तृतीयं पक्षमधिकृत्याह -
सागारअणागारं तु विरोहा कह णु जुज्जती नाणं ? | भावेवि तदंतरगहणमो फुडं अत्थतुल्लं तु ॥ ६८७॥ (साकारानाकारं तु विरोधात्कथं नु युज्यते ज्ञानम् ? | भावेऽपि तदंतरग्रहणं स्फुटं अर्थतुल्यं तु ॥ ६८७ ॥ )
साकारानाकारं तु ज्ञानं कथं नु युज्यते ? नैव कथंचनेति भावः । कुत इत्याह-विरोधात्विरोधदोषात् । तथाहि-यदि साकारं कथमनाकारम् ? अथानाकारं कथं साकारमिति ? अस्तु वा यथाकथंचनापि तत्साकारानाकारं तथापि यत् तस्य तदन्तरग्रहणं 'मो' निपातः पूरणे, तत् स्फुटमर्थतुल्यमेव-अर्थग्रहणतुल्यमेव । तुरेवकारार्थः । अर्थस्याप्येवं ग्रहणमनिवार्यमिति भावः । उभयोरपि-ज्ञानान्तरार्थयोस्तत्त्वतस्तुल्ययोगक्षेमत्वात् ॥६८७||
तुरीयं पक्षं दूषयन्नाह -
अणुभयरुवमभावो तब्भावे सव्वसुन्नतावत्ती ।
सा अणुहवसिद्धेणं विरुज्झती निययनाणेणं ॥ ६८८ ॥
अनुभयरूपमभावस्तद्भावे सर्वशून्यतापत्तिः ।
साऽनुभवसिद्धेन विरुध्यते निजकज्ञानेन ||६८८॥ )
अनुभयरूपं-न साकारं नाप्यनाकारमिति यदि विज्ञानमभ्युपगम्यते, ततः खरविषाणस्येव तस्याभावः प्राप्नोति । किं हि तत्सद्भवेद्यन्न साकारं नाप्यनाकारमिति ? ततः किमित्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org