SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार २३ चरममवान्तरमूलपक्षमधिकृत्याह -- अह अणुभयरूवं चिय नत्थि तयं हंदि खरविसाणं व । एवं च ठिए संते नाणम्मिवि तुज्झ का जुत्ती ? ॥६८३॥ (अथानुभयरूपमेव नास्ति तकद् हंदि खरविषाणमिव । एवं च स्थिते सति ज्ञानेऽपि तव का युक्तिः ? ॥६८३॥) अथानुभयरूपमेव तत् ज्ञानमिति पक्षः, हन्त तर्हि तकत्-ज्ञानं खरविषाणमिव सर्वथा नास्त्येव । किं हि तत् सद्भवेत् यत् सर्वथा न ग्राह्यरूपं नापि ग्राहकरूपमिति । एवं च स्थिते सति ज्ञानेऽपि तवाभ्युपगते का युक्तिः ? नैव काचिदित्यर्थः, ततश्चैवमुभयोरपि ज्ञानार्थयोर्युक्त्यभावेऽविशिष्टे सति को नु मत्सरो ? येनार्थो नाभ्युपगम्यते किंतु केवलं ज्ञानमेवेति ॥६८३।। अत्र परस्य मतमाशङ्कमान आह - अह उ ससंवेदणसिद्धमेव णण णिययमित्थ विन्नाणं । अत्थस्स दंसणं इय सिद्धं नणु सयल( ले)लोगेवि ॥६८४॥ (अथ तु स्वसंवेदनसिद्धमेव ननु नियतमत्र विज्ञानम् । अर्थस्य दर्शनमिति सिद्धं ननु सकले लोकेऽपि ॥६८४॥) अथाभिदधीथाः ननु नियतं-निश्चितमत्र-जगति विज्ञानं स्वसंवेदनप्रमाणसिद्धमेव तत्कथमस्य प्रतिक्षेपः क्रियते? प्रतिक्षेपयुक्तीनामध्यक्षसिद्धविषयतया युक्त्याभासत्वात् । अत्राह'अत्थस्सेत्यादि' । ननु इति - एवं ज्ञानस्येवेत्यर्थः अर्थस्यापि दर्शनं सकलेऽपि लोके सिद्धं, ततो न तस्याप्यर्थस्य प्रतिक्षेपो युक्तः, अभिहितयुक्तीनामध्यक्षसिद्धविषयतया युक्त्याभासत्वादिति ॥६८४॥ यदुक्तम् - 'किंचागारो तस्सा किमंगभूतो' इत्यादि, तत्र द्वितीय पक्षमधिकृत्याह - अह विसया आगारो स उ णाणं अत्थभणियदोसातो । सो कह णु तओ जुत्तो ? तहेव किंवा न बज्झाओ ? ॥६८५॥ (अथ विषयादाकारः स तु ज्ञानमर्थभणितदोषात् । स कथं नु ततो युक्तः ? तथैव किं वा न बाह्यात् ॥६८५॥) अथ मन्येथाः-नासावाकारो ज्ञानस्याङ्गभूतः किंतु विषयादुपजायते, स तु विषयो ज्ञानंज्ञानान्तरं न पुनः परपरिकल्पितो बाह्योऽर्थ इति । अत्राह-'अत्थभणिएत्यादि' । अर्थभणितदोषात्-अर्थपक्षभणितदोषप्रसङ्गात्, सः आकारस्ततो-ज्ञानरूपाद्विषयात् कथं नु युक्तः? नैव कथंचनेतिभावः । 'तहेव किंवा न बज्झाउ'त्ति । वाशब्दः पक्षान्तरसूचने । ततो यथा ज्ञानरूपा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy