________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
यदि भेदस्तर्हि तस्मिन् सति कथ नन्वेकं सत् उभयाकारं भवेत् ? नैव भवेदिति भावः । कुत इत्याह-यतो यस्मान्न हि न खलु द्वयोर्विरुद्धयोरेकव्यापित्वमेकस्वभावमर्थमभिव्याप्यावस्थानमिह लोके दृष्टं नापि भवतः स्वसमये इष्टमिति ॥ ६८०॥
२२ O
अह उ अभेदो ता एगभावतो चेव णोभयागारं । परिगप्पणम्मि एवं अतिप्पसंगो पमासिद्धो ॥६८१ ॥ ( अथ त्वभेदस्तस्मादेकभावादेव नोभयाकारम् । परिकल्पने एवं अतिप्रसङ्ग प्रमासिद्धः ||६८१ ॥ )
अथ तयोर्ग्राह्याकारग्राहकाकारयोरभेद इति पक्ष: । अत्राह - 'ता' ततोऽन ऽन्यतराकारस्यान्यतराकाराव्यतिरिक्ततया तत्स्वरूपतापत्तेरेकभावत एव - एकस्यैवान्यतरस्याकारस्य भावतो न तत् ज्ञानमुभयाकारम् । अथोच्येत स्वभावतस्तत् अन्यतरात्मकमेव, द्वितीयं तु रूपं तत्र परिकल्पितमिति यथोक्तदोषाभाव इति । अत आह- 'परिकप्पेत्यादि' । परिकल्पने चैवं क्रियमाणेऽतिप्रसङ्गः प्रमासिद्धो-न्याय (ज्ञान) सिद्धः प्राप्नोति । यत् किंचित् दृष्ट्वा षष्ठस्कन्धस्याप्येवं परिकल्पनाप्रसक्तेः, तस्याः पुरुषेच्छामात्रानुरोधित्वात्, पुरुषेच्छायाश्चैवमप्यनिवारितप्रसरत्वात् ॥६८१॥
भेदाभेदपक्षमधिकृत्याह
भेदाभेदो य विरोधदोसतो समयकोवतो चेव । बज्झत्थावत्तीए य सम्मं जुत्तिं न संसहइ ॥ ६८२॥
( भेदाभेदौ च विरोधदोषतः समयकोपत एव । बाह्यार्थापत्तेश्च सम्यग्युक्ति न संसहते ॥ ६८२ ॥ )
भेदो भेदौ च विचार्यमाणौ न सम्यक युक्ति संसहते । कुत: ? इत्याह - विरोधदोषात् । तथाहि-यदि भेदः कथमभेद: अथाभेदः कथं भेद इति ? अथ कथंचिदितरेतरानुवेधेन नायं भेदाभेदपक्षो विरुद्ध इत्युच्येत तत्राह- समयकोपतश्चैव न सम्यग् युक्तिं संसहेते इति संबन्ध: । एकान्तैकस्वभावाभ्युपगमपरो हि युष्मद्राद्धान्तस्तत्कथमितरेतरानुवेधतो जात्यन्तरात्मकभेदाभेदपक्षोऽभ्युपगम्यते, परसिद्धान्ताभ्युपगमप्रसङ्गात् । तथा बाह्यार्थापत्तेश्व न भेदाभेदौ युक्ति संसहेते । तथाहि-यदि ग्राह्यग्राहकाकारयो भेदाभेदावभ्युपगम्येत तर्हि बाह्यार्थेऽपि तुल्यांशातुल्यांशयो(तुल्यांशयोरिति पाठा.) रवयव्यवयवशब्दवाच्ययोर्भेदाभेदावभ्युपगन्तव्यौ, दोषाभावात् । तथा च सति न कश्चिद्वक्ष्यमाणनीत्या उक्तवृत्त्ययोगादिदोषाणामवकाश इति बाह्यार्थापतिरव्याहतैवेति ॥६८२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org