________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार द्वितीयं पक्षमाशय दूषयति - अह गाहगरूवं चिय इय वि गज्झस्सऽभावतो णेयं । विवरीयं सव्वं चिय जं भणितं गज्झपक्खम्मि ॥६७८॥ (अथ ग्राहकरूपमेव इत्यपि ग्राह्यस्याभावाद् ज्ञेयम् । विपरीतं सर्वमेव यद् भणितं ग्राह्यपक्षे ॥६७८॥)
अथ मन्येथास्तत् ज्ञानं ग्राहकरूपमेवेति पक्षो न ग्राह्यरूपमिति । अत्राह - ‘इयवीत्यादि' इत्यपि-अस्मिन्नपि पक्षेऽभ्युपगम्यमाने ग्राह्यस्याभावात्-सर्वथा ग्राह्यरूपस्य ज्ञानान्तरस्याभावाद्यद्भणितं ग्राह्यपक्षे दूषणं तत्सर्वं विपरीतं ज्ञेयम्, तथाहि-यदि तत् ज्ञानं ग्राहकरूपमेवेत्यभ्युपगमस्तर्हि समस्तेऽपि भुवने सकलज्ञानानां ग्राहकरूपैकस्वभावत्वाभ्युपगमात् सर्वथा न समस्ति ग्राह्यं विज्ञानं, तदभावे च कथं ग्राहकरूपता ? ग्राह्यापेक्षयैव तस्याः संभवात् । अथ स्वरूपग्राह्यापेक्षया ग्राहकरूपता न तर्हि तद्विज्ञानं ग्राहकमेव, ग्राह्यरूपत्वस्यापीदानीमभ्युपगमादिति ॥६७८॥
तृतीयं पक्षमधिकृत्याह - सिय तं उभयागारं विरोहभावा ण संगतमिदंपि । तेसिपि मिहो भेओऽभेदो उभयं व होज्जाहि ? ॥६७९॥ (स्यात् तदुभयाकारं विरोधभावान्न संगतमिदमपि । तेषामपि मिथो भेदोऽभेद उभयं वा भवेत् ॥६७९॥)
स्यादेतत्, तत्-विज्ञानमुभयाकारं-ग्राहकरूपं ग्राह्यरूपं च, ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । अत्राह-'विरोहेत्यादि' । इदमपि उभयाकारत्वं न संगतम् । कुत इत्याह-विरोधभावात् । तथाहि-तत् ज्ञानमेकस्वभावं तद्यदि ग्राहकरूपं कथं ग्राह्यरूपं ? ग्राह्यरूपं चेत् कथं ग्राहकरूपमिति । अन्यच्च, तयोरपि-ग्राह्याकारग्राहकाकारयोमिथः-परस्परं भेदो वा स्यादभेदो वा उभयं वेति ? पक्षत्रयम् ॥६७९।।
तत्राद्यपक्षमाधिकृत्याह - भेदे कहमेगं णणु उभयागारं ? णहेगवावित्तं । दोण्ह विरुद्धाण जतो दिटुं इटुं च समयम्मि ॥६८०॥ (भेदे कथमेकं ननु उभयाकारम् ? नहि एकव्यापित्वम् । द्वयोविरुद्धयोः यतो दृष्टमिष्टं च समये ॥६८०॥)
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org