________________
धर्मसङ्ग्रहणी
परिशिष्ट - २ (अथ कथमपि तस्यावगमस्तथैवार्थे मत्सरः को नु ? । स नास्ति अयुक्तितो ज्ञानेऽपि हन्त तुल्यमिदम् ॥६७५॥)
अथ कथमपि पूर्वोक्तदोषभयात्तस्य-बुद्धादितित्तमात्रस्यावगम इष्यते, ननु तर्हि तथैव यथा बुद्धादिचित्ते तथा अर्थेऽप्यवगमो भविष्यति, ततः को नु भवतस्तत्र मत्सरो येनासौ नेष्यते ? नैवासौ युक्तो, भवदुक्तन्यायस्योभयत्रापि तुल्यत्वात् । अथोच्येत-सोऽर्थः सर्वथा नास्ति अयुक्तित:-तत्साधकयुक्त्यभावत इत्यत आह-‘णाणम्मि वी'त्यादि । 'हन्तेति' प्रत्यवधारणे तदुक्तम् - "हन्त संप्रेषणप्रत्यवधारणविषादेष्विति" ज्ञानेऽपीदं-तत्साधकयुक्त्यभावलक्षणं (प्रमाणं) तुल्यमेव ॥६७५॥
कथमित्याह - जं गज्झगाहगोभयमणुभयरूवं व होज्ज विन्नाणं ? । जति गज्झरूवं मो ता ण गाहगं अत्थि भुवणेऽवि ॥६७६॥ ( यद् ग्राह्यग्राहकोभयानुभयरूपं वा भवेद् विज्ञानम् । यदि ग्राह्यरूपं ततो न ग्राहकमस्ति भुवनेऽपि ॥६७६॥)
यत् - यस्मादिदं विज्ञानं किं ग्राह्यरूपं भवेत् उत ग्राहकरूपम् आहोस्विदुभयरूपम् अनुभयरूपं वा-न ग्राह्यरूपं नापि ग्राहकरूपमिति ? तत्र यदि ग्राह्यरूपमिति पक्षो 'मो' निपातः पूरणे, 'ता' ततो न ग्राहकं ज्ञानमस्ति, भुवनेऽपि सकले सर्वेषामपि ज्ञाननां घटादिवत् सर्वथा ग्राह्यरूपैकस्वभावत्वाभ्युपगमात् ॥६७६।।
ततः किमित्याह - तदभावम्मि य कह गज्झरुवता अह सरूवगज्झाओ? । नियरुवगाहगत्तेवि कहं णु तं गज्झरुवं तु ? ॥६७७॥ (तदभावे च कथं ग्राह्यरूपताऽथ स्वरूपग्राह्यात् । निजरूपग्राहकत्वेऽपि कथं नु तद् ग्राह्यरूपं तु ? ॥६७७॥)
तदभावे च-सर्वथा ग्राहकज्ञानाभावे च कथं ग्राह्यरूपता भवेत् ? ग्राहकापेक्षं हि ग्राह्य तत्कथं तदभावे ग्राह्यरूपता भवेदिति । अथोच्येत, 'सरूपगज्झाओ'त्ति । भावप्रधानोऽयं निर्देशः, स्वरूपग्राह्यत्वाद् ग्राह्यरूपता, तद्धि स्वसंवेदनस्वभावं, ततस्तस्य स्वस्वरूपमेव ग्राहकं, स्वरूपग्राहकापेक्षया च ग्राह्यरूपतेति । अत्राह-'नियरूवेत्यादि' । निजं रूपं ग्राहकं यस्य तस्य भावस्तस्मिन्नपि अभ्युपगम्यमाने सति कथं नु तत् ज्ञानं ग्राह्यरूपमेव ? तुरवधारणे, नैवेतिभावः । ग्राहकरूपत्वस्यापीदानीमभ्युपगमादिति ॥६७७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org