________________
परिशिष्ट - २
बाह्यार्थसिद्धि-अधिकार
48
अत्र पर आह - बुद्धादिचित्तमेत्तं पडुच्च सिय तारिसं हवति नाणं । जं सद्दओऽवमन्नइ बज्झत्थासत्तमादीयं ॥६७२॥ (बुद्धादिचित्तमात्रं प्रतीत्य स्यात् तादृशं भवति ज्ञानम् । यत् शब्दतोऽवमन्यते बाह्यार्थासत्त्वादिकम् ॥६७२॥)
स्यादेतत्, बुद्धादिचित्तमात्रम् आदिशब्दात्तदन्यप्रज्ञापकादिपरिग्रहः प्रतीत्य-आश्रित्य तादृशमस्मादृशां ज्ञानं भवति, यद् भवान् बाह्यार्थासत्त्वादिकं शब्दतः-शब्देभ्यो बुद्धाद्यभिहितेभ्यः सकाशात् प्रतीयमानमवमन्यते । साक्षात्बुद्धादिना एवमभिहितं यथा-'बाह्योऽर्थो नास्ति किंतु ज्ञानमात्र'मित्यवमन्यते इत्यर्थः ॥६७२।।
एवमिह इमं सम्म मिच्छा इतरं तु होइ पडिवत्ती। बज्झत्थाभावम्मिवि एवं सेसोवि ववहारो ॥६७३॥ ( एवमिहेदं सम्यग् मिथ्या इतरत्तु भवति प्रतिपत्तिः । बाह्यार्थाभावेऽपि एवं शेषोऽपि व्यवहारः ॥६७३॥)
एवम्-अनेन प्रकारेण इदं सम्यक् बुद्धादिना साक्षादेवमभिहितत्वात्, इतरत् मिथ्या तीर्थान्तरीयैरभिहितत्वात् इति प्रतिपत्तिर्भवति । एवं शेषोऽपि त्यागादानादिको व्यवहारो बाह्यार्थाभावेऽपि द्रष्टव्यः । तस्यापि परादिचित्तमात्रं प्रतीत्य तथाभावात्ततो न किंचिन्नः शूणमिति ॥६७३।।
अत्राह - तस्सावगमाभावे तस्सतामेत्तहेतुगो एस । इच्छिज्जइ ववहारो जति ता अत्थेवि तुल्लमिदं ॥६७४॥ (तस्यावगमाभावे तत्सत्तामात्रहेतुक एषः । इष्यते व्यवहारो यदि ततोऽर्थेऽपि तुल्यमिदम् ॥६७४॥)
यदि तस्य-बुद्धादिचित्तमात्रस्यावगमाभावेऽपि तत्सत्तामात्रहेतुको-बुद्धादिचित्तमात्रहेतुक एष व्यवहार इष्यते 'ता' तत इदमर्थेऽपि तुल्यम्, तथाहि-अत्राप्येवं वक्तुं शक्यत एव यथा - अर्थस्यावगमाभावेऽपि तत्सत्तामात्रनिबन्धन एव सर्वोऽपि लौकिको व्यवहार इति ॥६७४॥
अह कहवि तस्सवगमो तहेव अत्थम्मि मच्छरो को णु ? । सो नत्थि अजुत्तीओ नाणम्मिवि हंत तुल्लमिदं ॥६७५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org