________________
धर्मसङ्ग्रहणी
परिशिष्ट - २
(किं चाकारस्तस्य किमङ्गभूत उत विषयात् ? । यदि तावदङ्गभूतः कथं नु ज्ञानान्तरावगमः ? ॥६६८॥)
किञ्च तस्य-ज्ञानस्याकारः किमङ्गभूत उत विषयादुत्पन्नः ? इति विकल्पद्वयम् । तत्र यदि तावदङ्गभूतस्ततः कथं नु तेन ज्ञानेन ज्ञानान्तरस्यावगमः ? नैव कथंचनेति भावः, तस्य स्वाकारमात्रसंवेदनप्रवणत्वात् ॥६६८॥
अणवगमम्मि य परमोहविउट्टणं केण सत्थमुवदिटुं ? । तदभावे सम्ममिदं मिच्छा इतरं तु को मोहो ? ॥६६९॥ (अनवगमे च परमोहविकुट्टनं केन शास्त्रमुपदिष्टम् ? । तदभावे सम्यगिदं मिथ्या इतरत्तु को मोहः ? ॥६६९॥)
अनवगमे च ज्ञानेन ज्ञानान्तरस्य केन ‘परमोहविउट्टणंति' परमोहविकुट्टनं शास्त्रमुपदिष्टं ? नैव केनचिदुपदिष्टं प्राप्नोति, परस्यैवाप्रतिपत्ति(त्ते) रितिभावः । तदभावे-शास्त्राभावे सम्यगिदंतन्निमित्तं विज्ञानमितरच्च-अतन्निबन्धनं मिथ्येति यो मोहः स को नाम ? अपूर्वोऽयमेकान्तेनासंभवी जात इत्यभिप्रायः ॥६६९॥
एकान्तेनासंभवित्वमेव दृष्टान्तेन भावयति - चोरो वंझापुत्तो अतो असाहुत्ति किमिह विन्नाणं । जायइ तिक्खं च जओ खरसंगं तेण साहुत्ति ? ॥६७०॥ (चौरो वन्ध्यापुत्रोऽतोऽसाधुरिति किमिह विज्ञानम् । जायते तीक्ष्णं च यतः खरशृङ्गं तेन साधु इति ॥६७०॥)
यतश्चौरो वन्ध्यापुत्रोऽतोऽसाधुः यद्वा यतः खरशृङ्गं तीक्ष्णं तेन कारणेन साधु इति किमिह विज्ञानं जायते ? नैव जायत इत्यर्थः, वन्ध्यापुत्रादेरसत्त्वात् । तथा शास्त्रस्यैवाभावात् कथं तदुत्थं विज्ञानं सम्यक् इतरच्च मिथ्येति विज्ञानमिहोपजायत इति ? ॥६७०॥
एयविगप्पाभावे कुतो विवादोत्ति ? कुणसि य तुमंति । खंधारुढो उलुगो विसुमरितो तं इमं णायं ॥६७१॥ (एतद्विकल्पाभावे कुतो विवाद इति ? करोषि च त्वमिति । स्कन्धारूढ उलुको विस्मृतस्तदिदं ज्ञातम् ६७१॥)
एतद्विकल्पाभावे च-सम्यगिदमितरच्च मिथ्येति विकल्पाभावे च कुतोऽयं विवादो युज्यते ? तत इत्थं त्वन्नीत्या सर्वथा विवादानुपपत्तौ तमेवेदानी कुर्वन् यदिदं ज्ञातं लोके श्रूयते - 'तव स्कन्धारूढोऽप्युलु(लू)को विस्मृत इति,' तत्सत्यं त्वं करोषीति ॥६७१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org