________________
परिशिष्ट २
बाह्यार्थसिद्धि-अधिकार
पद्यमानत्वात्, तस्माच्च मोहात्तद्विषया रागादयो दोषाः प्रादुष्यन्ति । "मोहो निदानं दोषाणमि"तिवचनात् । त एव तु रागादयो दोषाः तज्ज्ञाने नास्त्यासौ बाह्योऽर्थ इति बाह्यार्थयाथात्म्यपरिज्ञाने न भवन्ति, मोहाभावात्, ततश्च तस्माच्च - रागादिदोषाभावात् मोक्षसुखम् । तस्मान्मोहस्यैव संसारनिबन्धनत्वात् तत्परिक्षयनिमित्तं सोऽवश्यं वर्जयितव्यः ||६६५॥
माह -
तदेवं ज्ञानवादिनाऽभिहिते सत्यचार्योऽभिहितपरमाण्वादिविकल्पेषु दोषाभावं विवक्षुरपि परपक्षस्यातीवासारतामुपदर्शयितुकामो यथाभ्युपगमं परस्य प्रतिबन्दि (न्दी) ग्रहेण तावद्दूषण -
सागारमणागारं उभयाणुभयं व होज्ज णाणंपि ? । गाहगपमाणविरहा ण संगतं सव्वपक्खेसु ॥६६६॥ (साकारमनाकारमुभयानुभयं वा भवेद् ज्ञानमपि ? | ग्राहकप्रमाणविरहान्न संगतं सर्वपक्षेषु ॥ ६६६॥ )
आस्तां तावदन्यत्, यद्विज्ञानं त्वयाऽभ्युपगम्यते तत्किं साकारमनाकारम् उभयं-साकारानाकारमनुभयं वा न साकारं नाप्यनाकारं भवेदिति विकल्पचतुष्टयं, गत्यन्तराभावात् । न चैतेषु सर्वेष्वपि पक्षेषु तत् ज्ञानं संगतम् । कुत इत्याह- तद्ग्राहकप्रमाणाभावात् ॥६६६॥
सोऽपि कथं सिद्ध इति चेत् ? अत आह
नाणंतरं न इंदियगम्मं तग्गाहगं कुतो माणं ? ।
एमादि हंदि तुल्लं पायं विन्नाणपक्खे वि ॥ ६६७॥ ( ज्ञानान्तरं नेन्द्रियगम्यं तद्ग्राहकं कुतो मानम् ? | एवमादि हंदि तुल्यं प्राय: विज्ञानपक्षेऽपि ॥ ६६७॥)
-
अभ्युच्चयेन प्रतिविकल्पं दोषान्तरमभिधित्सुराह
किं चागारो तस्सा किमंगभूतो उआहु विसयातो ? | जति ताव अंगभूतो कहं णु णाणंतरावगमो ? ॥६६८॥
Jain Education International
१७
ग्राहकप्रमाणं प्रमेयत्वेन विवक्षितं ज्ञानमेव ग्राहकज्ञानापेक्षया ज्ञानान्तरं तच्चातीन्द्रियत्वान्नेन्द्रियगम्यं तत्कथं तद्ग्राहकं प्रत्यक्षं प्रमाणं भवेदित्येवमादिकमादिशब्दाद् 'अविगाणाभावाओ न जोगिनाणंपि जुत्तिखम' मित्यादि परिगृह्यते, 'हंदीति' परामन्त्रणे, प्रायो, विज्ञानपक्षेऽपि तुल्यमतो ज्ञानेन सह तुल्ययोगक्षेमत्वात् ज्ञानवत् बाह्योऽप्यर्थोऽभ्युपगन्तव्यो न वा ज्ञानमपि
॥६६७॥
30
-
For Personal & Private Use Only
www.jainelibrary.org